किल्विष
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किल्विषम्, क्ली, (“किलेर्वुक् च” । उणां १ । ५१ इति टिषच् वुकागमश्च ।) पापम् । अपराधः । इत्य- मरः । ३ । ३ । २२२ ॥ (यथा गीतायां ३ । १३ । “यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्व्वकिल्विषैः” ॥) रोगः । इति मेदिनी ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किल्विष¦ न॰ किल--टिषच्--वुक् च।
१ पापे
२ अपराधे चअमरः
३ रोगे मेदि॰ तस्य पापहेतुत्वात् तथात्वम्।
“नकिल्विषादीषत्ते बस्व आकरः” ऋ॰
५ ,
३५ ,
४ ,
“क्षीरं यदस्याःपीयते तद्वै पितृषु किल्विषम्, अथ॰
५ ,
१९
५ ।
“अपराधे।
“कोमे लुब्धक! दोषोऽत्र बिद्यते यदि वालिश!। अस्वतन्त्रं च मां मृत्युर्विवशंयदचूचुदत्। तस्यैव वचना-द्दष्टो न कोपेन न काम्यया। तस्य तत् किल्विषं लुब्ध!विद्यते यदि किल्विषम्” इति लुब्धकं प्रति सर्पोक्तिः। पापे
“यद्यन्यवशगेनेदं कृतं तु पन्नगाशुभम्। कारणं वै त्वमप्यत्रतस्मात्त्वमपि किल्विषी” सर्पं प्रति लुब्धकोक्तिः भा॰आनु॰
१ अ॰। तत्र पूर्व्ववाक्ये दोषत्वेन कीर्त्तनात् अपकार-परत्वम्। उत्तरत्र अशुभत्वेन कीर्त्तनात् पापपरत्वम्।
“एवं सति न दोषो मे नास्ति बध्यो न किल्विषी। किल्विषं समवाये स्यात् मन्यसे यदि किल्विषम्
“तत्रैव। कीर्त्तिभेदके कायिके
४ पापे च।
“अपाघमप किल्विषम्” यजु॰
३५ ,
११ ,
“किल्विषं कीर्त्तिभेदकं कायिकं पापम्” वेददी॰। ततः अस्त्यर्थे इनि। किल्विषिन्। तद्युक्ते त्रि॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किल्विष¦ n. (-षं)
1. Sin,
2. Fault, offence.
3. Disease, sickness. E. किल् to play sport, टिषच् Unadi affix, and वुक् inserted.