सामग्री पर जाएँ

किशोरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

किशोरः, पुं, (किञ्चित् शृणाति । शॄ हिंसायाम् । “किशोरादयश्च” । उणाम् । १ । ६६ । इति ओरन् । निपातनात् साधुः ।) अश्वशिशुः । (“कि- शोरं वडवा यथा” । इति महाभारतम् ॥) तैल पर्ण्योषधिः । सूर्य्यः । तरुणावस्थः । स तु एका- दशवर्षावधिपञ्चदशवर्षपर्य्यन्तवयस्कः । इति मे- दिनी ॥ कैशोरावस्थायुक्ते वाच्यलिङ्गोऽपि ॥ (यथा, श्रीभागवतटीकाकृत्स्वामिपादधृतवचनम् । “कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि । कैशोरमापञ्चदशात् यौवनञ्च ततः परम्” ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

किशोरः [kiśōrḥ], [Uṇ.1.65]

A colt, cub, the young of any animal; केसरिकिशोरः &c. ततः किशोरा म्रियन्ते Av.12. 4.7.

A youth, lad, a boy below fifteen, a minor in law (अप्राप्तव्यवहारः); न बालो न किशोरस्त्वं बलश्च बलिनां वरः Bhāg.1.43.39.

The sun.

री A young one of any animal (as horse), mare; उद्दामेव किशोरी नियतिः खलु प्रत्येषितुं याति Mk.1.19.

A maiden, a young woman.

A daughter; भजामस्त्वां गौरीं नगपतिकिशोरीमविरतम् Sundaralaharī.

"https://sa.wiktionary.org/w/index.php?title=किशोरः&oldid=277867" इत्यस्माद् प्रतिप्राप्तम्