सामग्री पर जाएँ

किष्कुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

किष्कुः, पुं, स्त्री, (कै + मृगय्वादित्वात् कुः । पार- स्कारादित्वात् सुटि षत्वे च निपातनात् साधुः ।) वितस्तिः । द्वादशाङ्गुलिपरिमाणम् । प्रकोष्ठः । कफोणेरधोमणिबन्धपर्य्यन्तः । हस्तः । इति मे- दिनी ॥ (यथा महाभारते २ । १ । १९ । “सर्व्वर्त्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम् । दशकिष्कुसहस्रां तां मापयामास सर्व्वतः” ॥) कुत्सिते त्रि । इति विश्वो हेमचन्द्रश्च ॥

"https://sa.wiktionary.org/w/index.php?title=किष्कुः&oldid=126973" इत्यस्माद् प्रतिप्राप्तम्