किसलयम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किसलयम्, क्ली पुं, (किञ्चित् ईषत् वा सलति । सल + बाहुलकात् कयन् । पृषोदरात् मलोपे साधुः ।) पल्लवः । इत्यमरः । २ । ४ । १४ ॥ स तु नवपत्रादि- युक्तशाखाग्रपर्व्वणि नवपत्रस्तवकः इति मधुः । इति भरतः ॥ (यथा गोः रामायणे । ४ । ५० । २८ । “तरुणादित्यसङ्काशान् रक्तैः किसलयैर्वृतान् । जातरूपमयैश्चापि चरद्भि र्मत्स्यकच्छपैः” ॥)
