सामग्री पर जाएँ

कीकटाः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कीकटाः, पुं, (की कुत्सितं ईषत् वा कटति वर्षति येषु इन्द्रः । ईषद्वर्षतया तद्देशानां तथात्वम् । की + कट् + अधिकरणे अप् ।) देशविशेषः । बहुवचनान्तशब्दोऽयम् । इति मेदिनी ॥ वेहार इति ख्यातः । इति केचित् ॥ (यथा, भागवते १ । ३ । २४ ॥ “ततः कलौ संप्रवृत्ते संमोहाय सुरद्विषाम् । बूद्धो नाम्नाञ्जनसुतः कोकटेष भविष्यति” ॥ देशोऽयं कुत्सिताचारपरिपूर्णः । यथा, भागवते । ७ । १० । १८ । “साधवः समुदाचारास्ते पूयन्त्यऽपि कीकटाः” ॥)

"https://sa.wiktionary.org/w/index.php?title=कीकटाः&oldid=126982" इत्यस्माद् प्रतिप्राप्तम्