कीचकजित्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कीचकजित्, पुं, (कीचकं जितवान् । जि + भूते क्विप् तुक् च ।) भीमसेनः । इति त्रिकाण्डशेषः ॥ (पुराकिल दुष्टात्मा कीचकः विराटभवनस्थां सैरिन्ध्रीरूपधारिणीं द्रौपदीमकामयत । द्रौपदी तु तस्य कामुकस्य दुरभिसन्धिं विज्ञाय तं बहुल कटूक्त्या निर्भर्त्सयामास । अथ कीचक एवमप- मानितः क्रुधा तां पदा ताडितवान् । अथ सा- भिमानिनी द्रौपदी निजदुःखं भीमं निवेदया- मास । भीमस्तु एतदाकर्ण्य संजातरोषः कीचकं हन्तुं मनो दधे । अथ सुबुद्धिर्भीमो द्रौपदीं उपदिदेश श्वो निशायां यथा स दुरात्मा राज- श्यालकः मत्स्यराजशुद्धान्तकन्यानर्त्तनशालायां त्व- ल्लोभेन समुपतिष्ठेत तथाऽऽश्वास्य समयो विधी- यताम् । ततस्त्वद्वेशेन तत्र सङ्गतोऽहमेनं कामार्त्तं दुष्कार्य्यस्य फलं अनुभावयामि । एवं स्थिरीकृते द्रौपदी पूर्ब्बोक्तमत्त्रितं स्थानं कीचकं विज्ञापित- वतो । अथ निशायां मूढबुद्धिः कामुकवेशधारी तत्रैव गतः प्रच्छन्नोपविष्टेन बलीयसा भीमेन पशुमारं निपातितः ॥ एतद्विस्तृतिस्तु महाभा- रते ४ । २१ अध्याये द्रष्टव्या ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कीचकजित्¦ पु॰ कीचकं जितवान् जि--भूते क्विप्। भीमसेनेकीचकभिदादयोऽप्यत्र भीमेन तस्य बधकथा च भा॰वि॰
२२ अ॰। तत्रायं संक्षेपः कीचकधर्षितया द्रौपद्यातद्बवार्थं प्रार्थितेन भीमेन एकाकिना नाट्यशालायांत्वया रात्रौ आ गतेन सह मममेलनं भविष्यतीति कीचकंप्रति सङ्केतदानाय भीमेन नोदितया द्रौपद्या तथाऽनुष्ठितेभीमस्य नाट्यशालायां रात्रौ द्रौपदीस्थानीयतयाग्रेप्रवेशेतत्र कीचकगतौ तयोर्युद्धादिकमुपवर्ण्ण्य भीमेन कीच-[Page2058-a+ 38] कस्य बध होद्देदि करपाद--प्रवेशनञ्चेति वर्ण्णितं यथा
“भीमोऽथ प्रथम गत्वा रात्रौ च्छन्न उपाविशत्। मृगंहरिरिवादृश्यः समाकाङ्क्षत कीचकम्। कीचकश्चाप्यलङ्कृत्ययथाकाममुपागमत्। तां वेलां नर्त्तनागारं पाञ्चालीस-ङ्गमाशया। मन्यमानः स सङ्केतमागारं प्राविशत्ततः। प्रविश्य च स तद्वेश्म तमसा संवृतं महत्। पूर्व्वागतंगतस्तत्र भीममप्रतिमौजसम्। एकान्तावस्थितं चैन-मासंसाद सुदुर्म्मतिः। शयानं शयने तत्र मृत्युं सूतःपरामृशत्। पतङ्गः पावकं दीप्तं सिंहं क्षुद्रपशुर्यथा। जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह। उपसंगम्यचैवेनं कीचकः काममोहितः। हर्षोन्मथितचित्तात्मास्मयमानोऽभ्यभाषत। प्रापितं ते मया वित्तं बहुरूपमन-न्तकम्। त्वत्कृते धनरत्नाद्यं दासीशतपरिच्छदम्। रूपलावण्ययुक्ताभिर्युवतीभिरलङ्कृतम्। गृहं सान्तः-पुरं सुभ्रु! क्रीडारतिविराजितम्। तत् सर्व्वं त्वां समु-द्दिश्य सहसा समुप गतः। आबालान्मां प्रशंसन्ति सर्व्वागृहगताः स्त्रियः। सुवासा दर्शनीयश्च नान्योऽस्तित्वादृशः पुमान्। भीम उवाच। दिष्ट्या त्वं दर्शनीयो-ऽसि दिष्ट्यात्मानं प्रशंससि। ईदृशस्तु त्वया स्पर्शःस्पृष्टपूर्व्वो न कर्हिचित्। स्पर्शं वेत्सि विदग्धस्त्वं काम-धर्म्मविचक्षणः। स्त्रीणां प्रीतिकरो नान्यस्त्वत्समः पुरुष-स्त्विह। वैशम्पायन उवाच। इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः। सहसोत्पत्यकौन्तेयः प्रहस्येदमुवाच ह। अद्य त्वां भगिनी पाप!कृष्यमाणं मया भुवि। द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेवमहाद्विपम्। निराबाधा त्वयि हते सैरिन्ध्री विचरिष्य-ति। सुखमेवं चरिष्यन्ति सैरिन्ध्य्राः पतयस्तथा। ततोजग्राह केशेषु माल्यवत्सु महाबलः। स केशेषु परा-मृष्टो बलेन बलिनां वरः। आक्षिप्य केशान् वेगेनबाह्वोर्जग्राह पाण्डबम्। बाहुयुद्धं तयोरासीत् क्रु-द्धयोर्नरसिंहयोः। वसन्ते वासिताहेतोर्ब्बलवद्गजयो-रिव। कीचकानान्तु मुख्यस्य नराणामुत्तमस्य च। बालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः”। ततस्तयोर्युद्धमुपवर्ण्योक्तम्
“मुहूर्त्तन्तु स तं वेगं सहित्वाभूरिदुःसहम्। बलादहीयत तदा सूतो भीमबलार्द्दितः। तं हीयमानं विज्ञाय भीमसेनो महाबलः। वक्षस्यानीयवेगेन ममद्दैनं विचेतसम्। क्रोधाविष्टो विनिश्वस्यपुनश्चैनं वृकोदरः। जग्राह जयतां श्रेष्ठः केशे-[Page2058-b+ 38] ष्वेव तदा भृशम्। गृहोत्वा कीचकं भीमो विरुरावमहाबलः। शार्द्दूलः पिशिताकाङ्क्षी गृहीत्वेव महा-मृगम्। तत एनं परिश्रान्तमुपलभ्य वृकोदरः। योक्त्र-यामास बाहुभ्यां पशुं रशनया यथा। नदन्तञ्च महानादंभिन्नभेरीसमस्वनम्। भ्रामयामास सुचिरं विष्फुरन्तम-चेतसम्। प्रगृह्य तरसा दोर्भ्यां कण्ठं तस्य वृकोदरः। अपीडयत कृष्णायास्त्रदा कोपोपशान्तये। अथ तं भग्न-सर्व्वाङ्गं व्याविद्धनयनान्तरम्। आक्रम्य च कटीदेशेजानुना कीचकाधमम्। अपीडयत बाहुभ्यां पशुमार-ममारयत्। तं विषीदन्तमाज्ञाय कीचकं पाण्डुनन्दनः। भूतले भ्रामयामास वाक्यञ्चेदमुवाच ह। अद्याहम-नृणो भूत्वा भ्रातुर्भार्य्यापहारिणम्। शान्तिं लब्धास्मिपरमां हत्वा सैरिन्ध्रिकण्ठकम्। इत्येवमुक्त्वा पुरुषप्रवीरस्तं कीचकं क्रोधसरागनेत्रः। आस्रस्तवस्त्राभरणंस्फुरन्तमुद्भ्रान्तनेत्रं व्यसुमुत्सर्ज्ज। निष्पिष्य पाणिनापाणिं सन्दष्टोष्ठपुटो बली। समाक्रम्य च संक्रुद्धोबलेन बलिनां वरः। तस्य पाणी च पादौ च शिरोग्रीवाञ्च सर्व्वशः। काये प्रवेशयामास पशोरिव पिनाक-धृक्। तं सम्मथितसर्व्वाङ्गं मांसपिण्डोपमं कृतम्। कृष्णायै दर्शयामास भीमसेनो महाबलः”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कीचकजित्¦ m. (-जित्) A name of BHIMA. E. कीचक a goblin, and जित् who conquers.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कीचकजित्/ कीचक--जित् m. " conquering कीचक" , भीम-सेनL.
