कीर्णः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कीर्णः, त्रि, (कीर्य्यतेऽसौ । कॄ + कर्म्मणि क्तः ।) आच्छन्नः । विक्षिप्तः । (यथा, शाकुन्तले १ माङ्के ॥ “ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्त- दृष्टिः पश्चार्द्धेन प्रविष्टः शरपतनभयात् भूयसा पूर्ब्बकायम् । शष्पैरर्द्धावलीढैः श्रमविवृतमुख- भ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वात् वियति बहुतरं स्तोकमुर्व्यां प्रयाति” ॥) हिंसितः । इति मेदिनी ॥
