सामग्री पर जाएँ

कीर्त्तिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कीर्त्तिः, स्त्री, (कॄत् + क्तिन् । यद्वा, कॄत् संशब्दने “हृपिषिरुहीति” उणां ४ । ११८ । इरादि- कार्य्ये इन् ।) सुख्यातिः । तत्पर्य्यायः । यशः । समज्ञा ३ । इत्यमरः १ । ६ । ११ ॥ समाज्ञा ४ समाख्या ५ समज्या ६ । इति तट्टीकायां भरतः ॥ अभिख्या ७ श्लोकः ८ वर्णः ९ । इति जटाधरः ॥ कीर्त्तना १० । इति शब्दरत्नावली ॥ “दानादिप्रभवा कीर्त्तिः शौर्य्यादिप्रभवं यशः” ॥ इति माधवी ॥ अत एव यशःकीर्त्त्योर्भेदस्याति दर्शनात् “यशःकीर्त्तिप्रविभ्रष्टो जीवन्नपि न जीवति” इति कस्यचित् प्रयोगः । जीवतः ख्या- तिर्यशो मृतस्य ख्यातिः कीर्त्तिरिति केचित्तन्न साधु “कीर्त्तिस्ते नृपदूतिकेति” प्रयोगदर्शनात् । इति भरतः ॥ * ॥ प्रसादः । इति मेदिनी ॥ शब्दः । दीप्तिः । मातृकाविशेषः । इति शब्द- रत्नावली ॥ विस्तारः । कर्द्दमः । इति विश्वः ॥

"https://sa.wiktionary.org/w/index.php?title=कीर्त्तिः&oldid=127031" इत्यस्माद् प्रतिप्राप्तम्