कीर्त्तिमाण्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कीर्त्तिमाण् [त्] पुं, (कीत्तिरस्यास्तीति मतुप् ।) वसुदेवज्येष्ठपुत्त्रः । (यथा भागवते ९ । २४ । ५३ । “वसुदेवस्तु देवक्यां अष्टपुत्त्रानजीजनत् । कीर्त्तिमन्तं सुषेणञ्च भद्रसेनमुदारधीः । ऋजुं संमर्दनं भद्रं सङ्कर्षणमहीश्वरम्” ॥) कीर्त्तिविशिष्टे त्रि ॥ (यथा, हेः रामायणे १ । २ । ४२ । “उदारवृत्तार्थपदैर्मनोरमै- स्तदास्य रामस्य चकार कीर्त्तिमान् । समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारदर्शनः” ॥)
