सामग्री पर जाएँ

कीलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कीलः, पुं स्त्री, (कील्यते रुध्यतेऽसौ अनेनात्र बा । कील बन्धे + कर्म्मणि करणेऽधिकरणे च यथायथं घञ् पुंसीति घोवा ।) अग्निशिक्षा । शङ्कुः । इत्यमरः ३ । ३ । १९६ ॥ (यथा, महाभारते । ३ । १५ । १५ । “परिखाश्चापि कौरव्य ! कीलैः सुनिचिताः कृताः” ॥ तथा च आर्य्यासप्तशती ३७४ । “या लुप्तकीलभावं याता हृदि वहिरदृश्यापि” ॥) स्तम्भः । लेशः । कफोणिः । इति मेदिनी ॥ कफो- णिनिर्घातः । इति विश्वः ॥ (मूढगर्भस्य प्रकारभेदः । यथा ॥ “तत्र ऊर्द्ध्वबाहुशिरः पादौ यो योनि- मुखं निरुणद्धि कील इव स कीलः” ॥ इति सुश्रुते निदानस्थाने ८ अध्याये ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कीलः [kīlḥ], [कील्-घञ्]

A wedge, a pin; कीलोत्पाटीव वानरः Pt.1.21.

A lance; कीलैः सुनिचिताः कृताः Mb.3.15.15.

A post, pillar.

A weapon; सकीलकवचाः सर्वे वासी- वृक्षादनान्विताः Mb.5.155.8.

The elbow.

A blow with the elbow.

A flame, a lambent flame, halo; बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलम् Śi.15.48.

A minute particle.

N. of Śiva.

A gnomon.

A position of the fœtus just before the time of delivery.

a gambler; किलो धूर्ते रथाक्षे च शङ्कौ ज्वालाम- हीध्रयोः Nm.

handle, brace; Suśr. -Comp. -प्रति- कीलकन्यायः This maxim is explained in the Mahābhāṣya in the passage कीलप्रतिकीलकवत् । तद्यथा कील आहन्य- मानः प्रतिकीलं निर्हन्ति Mbh. on P.II.2.6.

"https://sa.wiktionary.org/w/index.php?title=कीलः&oldid=278369" इत्यस्माद् प्रतिप्राप्तम्