कीलालम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कीलालम्, क्ली, (कीलं वह्निज्वालां अलति वारय- तीति । कील + अल् + कर्म्मण्यण् । यद्वा कीलात् वह्निशिखायाः शिखाग्रहणेनात्र वह्नेरेव ग्रहण- मिति ध्येयम्, अतएवाग्नेः सकाशात् अलति- पर्य्याप्नोति उत्पद्यते इति यावत् “अग्नेरापः” इति श्रुतेः । अल् + अच् ।) जलम् । (यथा, शङ्क- रकविकृते अम्बाष्टके २ । “कूलातिगामिभयतूलावलिज्वलनकीलानिजस्तुति- विधाकोलाहलक्षपितकालामरी कुशलकीलाल- पोषणनभाः” ॥) रक्तम् । इत्यमरः ३ । ३ । १९९ ॥ (और्व्वाग्नेः कीलं आलाति । आला + कः ।) अमृतम् । मधु । इति शब्दरत्नावली ॥ (पुं कीलाय वन्धाय अलति पर्य्याप्नोतीति । पशुः ॥)
