सामग्री पर जाएँ

कीलितः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कीलितः, त्रि, (कील्यतेऽसौ ॥ कील + कर्म्मणि क्तः ।) बद्धः । इत्यमरः । ३ । १ । ४२ ॥ (यथा, राजेन्द्र- कर्णंपूरे ३० । “किं वान्यत्तव देव ! वेल्लति यदि भ्रूवल्लरीपल्लवः सोऽपि क्षामकपोलकीलितकरः संक्रन्दनः क्रन्दति” ॥) कीशः, पुं, (की इति शब्दं ईष्टे । ईश् + कः । यद्वा कस्य वायोरपत्यं अत इञ् । किः हनुमान् ईशो यस्य ।) वानरः । इत्यमरः २ । ५ । ३ ॥ (यथा, काशीखण्डे ४२ । ३१ । “रासभैः करभैः कीशैः श्येनैरश्वरैर्वकैः” ॥ के आकाशे ईष्टे प्रभवतीति । क + ईश् + कः ।) सूर्य्यः । पक्षी । इति शब्दरत्नावली ॥ नग्ने त्रि । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=कीलितः&oldid=127053" इत्यस्माद् प्रतिप्राप्तम्