कुकुटः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुकुटः, पुं, (कु ईषत् कुत्सितं यथा स्यात् तथा वा कुटतीति । कुट् + कः ।) सितावरः । इति राज- निर्घण्टः ॥ सुषणि शाक इति भाषा ॥ (अस्य पर्य्याया यथा भावप्रकाशस्य पूर्ब्बखण्डे १ भागे । “शितिवार शितिवरः स्वस्तिकः सुनिषण्णकः । श्रीवारकः सूचिपत्रः पर्णकः कुकुटः शिखी” ॥ गुणाश्चास्य सुनिषण्णकशब्दे ज्ञेयाः ॥)
