कुकुन्दर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुकुन्दरम्, क्ली, (स्कुन्द्यते कामिनाऽत्र । स्कुदि आप्ल- वने मद्गुरादयश्चेति निपातनात् साधुः ।) नितम्ब- स्थकूपकद्वयम् । पृष्ठवंशादधोगर्त्तद्वयम् । इत्यमरः । २ । ६ । ७९ ॥ कुकुन्दरे इति द्विवचनान्तोऽपि प्रयोगः ॥ (यथा सुश्रुते शारीरस्थाने । ६ अ ॥ “पार्श्वजधनवहिर्भागे पृष्ठवंशमुभयतो नातिनिम्ने कुकुन्दरे नाम मर्म्मणी तत्र स्पर्शाज्ञानमधःकाये चेष्टोपघातश्च” ॥)
कुकुन्दरः, पुं, (कुं भूमिं दरयति दारयति वा अन्त- र्भूतण्यन्तात् दॄ अण् निपातनात् वृद्ध्यभावेन साधुः । कु ईषत् कुत्सितं वा कुन्दरमत्र ।) कुक्कुरद्रुः । कुकुरौदा इति हिन्दी भाषा । तत्- पर्य्यायगुणाः । यथा भावप्रकाशे ॥ “कुकुन्दरस्ताम्रचूडः सूक्ष्मपत्रो मृदुच्छदः । कुकुन्दरः कटुस्तिक्तो ज्वररक्तकफापहः ॥ तन्मूलमार्द्रं निःक्षिप्तं वदने मुखशोषहृत्” ॥ (पुंलिङ्गोऽयं शब्दोऽपि नितम्बस्थकूपकद्वये वर्त्तते यथा ॥ “पृष्ठवंशं ह्युभयतो यौ सन्धी कटिपार्श्वयोः । जघनस्य वहिर्भागे मर्म्मणी तौ कुकुन्दरौ” ॥ इति वाभटे शारीरस्थाने । ४ अध्याये ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुकुन्दर पुं।
पृष्ठवंशादधोगर्ताः
समानार्थक:कूपक,कुकुन्दर
2।6।75।1।2
कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे। स्त्रियाम्स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः॥
पदार्थ-विभागः : अवयवः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुकुन्दर¦ पु॰ कुं भूमिं दारयति अन्तर्भूतण्यर्थे दृ--अण् नि॰कुत्सितं कुन्दरमत्र, स्कुद्यते कामिनाऽत्र स्कुद् नि॰ वा। स्त्रीणां
१ नितम्बस्थे आवर्त्ताकारे पृष्ठवंशादधोबर्त्तिगर्त्त-द्वये। अमरः। (कुकुरसोङ्गा)
२ वृक्षे भावप्र॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुकुन्दर¦ n. (-रं) or n du. (-रे) the cavities of the loins. E. कुन्दर a hollow. a cave, from कु the earth, and दृ to rend or tear, कु bad, vile, pre- fixed; it is also written ककुन्दर।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुकुन्दर n. du. ([ औm. du. L. ])= ककुन्दरSee. Sus3r. VarBr2S. ( ifc. f( आ). )
कुकुन्दर m. = कु-कु-द्रुSee. Bhpr.