कुकुन्दरम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुकुन्दरम्, क्ली, (स्कुन्द्यते कामिनाऽत्र । स्कुदि आप्ल- वने मद्गुरादयश्चेति निपातनात् साधुः ।) नितम्ब- स्थकूपकद्वयम् । पृष्ठवंशादधोगर्त्तद्वयम् । इत्यमरः । २ । ६ । ७९ ॥ कुकुन्दरे इति द्विवचनान्तोऽपि प्रयोगः ॥ (यथा सुश्रुते शारीरस्थाने । ६ अ ॥ “पार्श्वजधनवहिर्भागे पृष्ठवंशमुभयतो नातिनिम्ने कुकुन्दरे नाम मर्म्मणी तत्र स्पर्शाज्ञानमधःकाये चेष्टोपघातश्च” ॥)
