कुक्कुटमण्डप
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुक्कुटमण्डपः, पुं, मुक्तिमण्डपः । यथा, काशीखण्डे । “ततो लोकास्तदारभ्य कथयिष्यन्ति सर्व्वतः । मुक्तिमण्डपनामैतदेष कुक्कुटमण्डपः” ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुक्कुटमण्डप¦ काशीस्थे मुक्तिमण्डपे स्थाने। तस्य तन्नामकारणकथा च काशो॰
९८ अ॰ दर्शिता यथा-
“कैबल्यमण्डपस्यास्य भविष्यद्वावरे हरे!। लोके ख्याति-र्भवित्रीयमेष कुककुटमण्डपः” इति शिवोनोक्ते तद्विषयेहरिप्रश्ने यथा तस्य कुक्कुटमण्डपनामप्राप्तिस्तथेतिहा-सो वर्ण्णितः। तत्र चण्डालतः प्रतिग्राहकविप्रस्य सुतद्व-यपत्नीभ्यां सहितस्य कीकटे कुक्कुटयोनित्वप्राप्तिमुपवर्ण्ण्यतस्य मरणकाले काशीस्मरणजात् पुण्यात् कुक्कुटयोनिग-तावपि काशीप्राप्त्या मुक्तिरित्युक्तम् यथा
“न काश्यांमरणं प्राप्तं तस्माद्दुष्टप्रतिग्रहात्। प्रान्ते कुटुम्बस्मरणा-त्तथा काशीस्मृतेरपि। चौरैर्हतोऽपि स तदा कोकटे कु-क्कुटोऽभवत्। सा कुर्क्कुटीसुतौ तौ तु ताम्रचूडत्वमा-पतुः। प्रान्ते काशीस्मरणतोजाता जातिस्मृतिः पुरा। इत्थं बहुतिथे काले गते कार्पाटिकोत्तमाः। तस्मिन्नेवा-ध्वनि प्राप्ताश्चत्वारो यत्र कुक्कुटाः। वाराणस्याः कथां[Page2063-b+ 38] प्रोच्चैः कुर्वन्तोऽन्योन्यमेव हि। काशीकथां समाकर्ण्ण्यतदा ते चरणायुधाः। जातिस्मृतिप्रभावेन तत्सङ्गेन तुनिर्गताः। तैश्च कार्पटिकश्रेष्ठैः पथि दृष्टाः कृपालुभिः। तण्डुलादिपरिक्षैपेः प्रापिताः क्षेत्रमुत्तमम्। ते तु क्षेत्रंसमासाद्य चत्वारश्चरणायुधाः। चरिष्यन्तोऽत्र परितो-मुक्तिमण्डपमुत्तमम्। जिताहारान् सनियमान् काम-क्रोधपराङ्मुखान्। शृण्वतः सत्कथालापान् लोभमो-हविवर्ज्जितान्। स्वर्धुनीस्नानसंक्लिन्नसुनिर्मलशिरोरु-हान्। मन्नामोच्चारणपरान् मत्कथार्पितसुश्रुतीन्। मद्द-त्तचित्तसद्वृत्तीन् दृष्ट्वा क्षेत्रनिवासिनः। मानयामासुरथतान् कुक्कुटान् साघुवर्त्मनः। प्राक्तनाद्वासनायोगात्संप्रधार्य्य परस्परम्। क्रमेणाहारमाकुञ्च्य प्राणांस्त्य-क्ष्यन्ति चात्र ते। पश्यतां सर्व्वलोकानां विष्णो!ते मदनुग्रहात्। विमानमधिरुह्याशु कैलासं प्राप्य मत्प-दम्! निर्बिश्य सुचिरं कालं दिव्यान् भोगाननुत्तमान्। ततोऽत्र ज्ञानिनोभूत्वा मुक्तिं प्राप्स्यन्ति शाश्वतीम्। ततो लोकास्तदारभ्य कथयिष्यन्ति सर्ब्बतः। मुक्तिम-ण्डपनामैतदेष कुक्कुटमण्डपः”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुक्कुटमण्डप/ कुक्कुट--मण्डप m. N. of a sanctuary in Benares (standing on the right side of a statue of शिव, a place where final emancipation may be attained) SkandaP. (See. मुक्ति-मण्डप.)
