सामग्री पर जाएँ

कुक्कुटव्रत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुक्कुटव्रतम्, क्ली, (कुक्कुट इत्याख्यं व्रतम् ।) सन्तानार्थं स्त्रीकर्त्तव्यव्रतम् । इति शब्दमाला ॥ कुक्कुटीव्रत- मपि पाठः । ललितासप्तमीव्रतमिदम् । यथा, -- “भाद्रे मासि सिते पक्षे सप्तम्यां नियमेन या । स्नात्वा शिवं लेखयित्वा मण्डले च सहाम्बिकम् ॥ पूजयेच्च तदा तस्या दुष्प्रापं नैव विद्यते” ॥ इति तिथ्यादितत्त्वे भविष्यपुराणम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुक्कुट(टी)व्रत¦ न॰ भाद्रशुल्कसप्तम्यां कर्त्तव्यव्रतभेदे
“भाद्रेमासि सिते पक्षे सप्तम्यां नियमेन या। स्नात्वा शिवंलेखयित्वा मण्डले च सहाम्बिकम्। पूजयेच्च तदातस्या दुष्प्रापं नैव विद्यते” ति॰ त॰ भवि॰ पु॰। इदंकुक्कुटीव्रतमिति ति॰ त॰ रघुनन्दनः

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुक्कुटव्रत/ कुक्कुट--व्रत n. a religious observance (worship of शिव, on the seventh of the light fortnight of the month भाद्र, by women , especially for the sake of offspring) BhavP.

"https://sa.wiktionary.org/w/index.php?title=कुक्कुटव्रत&oldid=496372" इत्यस्माद् प्रतिप्राप्तम्