सामग्री पर जाएँ

कुङ्कुमम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुङ्कुमम्, क्ली, (कुम्कुम् इति शब्दोऽस्ति वाचकत्वेनास्य अर्श आद्यच् । यद्वा कुक्यते आदीयतेऽसौ । कुक् आदाने उमक् निपतनात् मुम् ।) स्वनामख्यात- गन्धद्रव्यम् । कुम्कुम् इति केशर इति भाषा । (यथा माघे ११ । १४ । “कृतधवलिमभेदैः कुङ्कुमेनेव किञ्चित् । मलयरुहरजोभिर्भूषयन् पश्चिमाशाम्” ॥) तत्पर्य्यायः । काश्मीरजन्म २ अग्निशिखम् ३ वरम् ४ वाह्लीकम् ५ पीतनम् ६ रक्त्वम् ७ सङ्कोचम् ८ पिशुनम् ९ धीरम् १० लोहित- चन्दनम् ११ । इत्यमरः । २ । ६ । १२४ । चारु १२ वाह्लिकम् १३ वरवाह्लीकम् १४ रक्तचन्दनम् १५ । इति तट्टीका ॥ अग्निशेखरम् १६ असृक् १७ काश्मीरजम् १८ पीतकम् १९ काश्मीरम् २० रुचिरम् २१ शठम् २२ शोणितम् २३ घुसृणम् २४ वरेण्यम् २५ अरुणम् २६ कालेयकम् २७ जागुडम् २८ कान्तम् २९ वह्निशिखम् ३० केशरवरम् ३१ गौरम् ३२ केसरम् ३३ हरि- चन्दनम् ३४ खलम् ३५ रजम् ३६ दीपकम् ३७ लोहितम् ३८ सौरभम् ३९ चन्दनम् ४० इति शब्दरत्नावली ॥ अस्य गुणाः । सुरभित्वम् । तिक्तत्वम् । कटुत्वम् उष्णत्वम् । कासवातकफ- कण्ठरोगमूर्द्धशूलविषदोषनाशित्वम् । रोच- नत्वम् । तनुकान्तिकरत्वञ्च । इति राजनिर्घण्टः ॥ रेचकत्वम् विवर्णताकण्डूनाशित्वञ्च । इति राज- वल्लभः ॥ स्निग्धत्वम् । शिरोरुग्व्रणजन्तुवमिव्यङ्ग- दोषत्रयापहत्वम् । बल्यत्वञ्च । इति भावप्रकाशः ॥ त्वग्दोषनाशित्वम् । इति रत्नावली तत्त्वचन्द्रिका च ॥ देशभेदे तत् त्रिविधम् । यथा, -- “काश्मीरदेशजे क्षेत्रे कुङ्कुमम् यद्भवेद्धि तत् । सूक्ष्मकेशरमारक्तं पद्मगन्धि तदुत्तमम् ॥ १ ॥ वाह्लीकदेशसंजातं कुङ्कुमं पाण्डुरं भवेत् । केतकीगन्धयुक्तं तन्मध्यमं सूक्ष्मकेशरम् ॥ २ ॥ कुङ्कुमं पारसीकेयं मधुगन्धि तदीरितम् । ईषत्पाण्डुरवर्णं तदधमं स्थूलकेशरम्” ॥ ३ ॥ इति भावप्रकाशः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुङ्कुमम् [kuṅkumam], 1 Saffron; लग्नकुङ्कुमकेसरान् (स्कन्धान्); R. 4.67; Ṛs.4.2;5.9; Bh.1.1,25.

Saffron paint; ˚पत्ररेखावैदग्ध्यं जहति कपोलकुङ्कुमानि Māl.1.37.-Comp. -अद्रिः N. of a mountain.

"https://sa.wiktionary.org/w/index.php?title=कुङ्कुमम्&oldid=278892" इत्यस्माद् प्रतिप्राप्तम्