सामग्री पर जाएँ

कुचरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुचरः, त्रि, (कुत्सितं चरतीति । कु + चर् + अच् ।) कुवादः । परदोषकथनशीलः । इत्यमरः । ३ । १ ३७ ॥ (दुर्गमदेशगन्ता । यथा, ऋग्वेदे । १ । १५४ । २ । “प्र तद्विष्णुः स्तवते वीर्य्येण मृगो न मीमः कुचरो गिरिष्ठाः” ॥ कुस्थाने चरतीति । कान्तारादि- पर्य्यटकः । कौ पृथ्व्यां चरतीति । भूमिचरः ॥ यथा महाभारते । १४ । ३८ । १३, १४ । “दृष्ट्वा त्वादित्यमुद्यन्तं कुचराणां भयं भवेत् । अध्वगाः परितप्येयुरुष्णतो दुःखभागिनः ॥ आदित्यः सत्वमुद्रिक्तं कुचरास्तु तथा तमः । परितापोऽध्वगानाञ्च रजसो गुण उच्यते” ॥)

"https://sa.wiktionary.org/w/index.php?title=कुचरः&oldid=127133" इत्यस्माद् प्रतिप्राप्तम्