सामग्री पर जाएँ

कुज्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुज्या¦ स्त्री सि॰ शि॰ उक्ते वृत्ताकाराक्षक्षेत्रार्द्धावयबधनुः सा-धनाङ्गज्यापञ्चकान्तर्गते जीवाभेदे। ज्यापञ्चकं च तत्रदर्शितम् यथा इदानीं पञ्चज्यासाधनमाह।
“युक्तायनां-शादपमः प्रसाध्यः कालौ च खेटात् खलु भुक्तभोग्यौ। जिनांशमौर्व्या

१३

९७ गुणितार्कदोर्ज्या त्रिज्यो

३४

३८ द्धृताक्रान्तिगुण्णोऽस्य वर्गम्। त्रिज्याकृतेः

११

८१

९८

४४ प्रोह्यपदं द्युजीवा क्रान्तिर्भवेत् क्रान्तिगुणस्य चापम्। अक्षप्र-भासंगुणितापमज्या तद्द्वादशांशो भवति क्षितिज्या। सात्रिज्यकाघ्नी विहृता द्युमौर्व्या चरज्यकास्याश्च धनुश्चरंस्यात्” सि॰ शि॰।
“अत्र खेटादित्युपलक्षणम् यस्मात्खेटाल्लग्नाद्वाऽपमः साध्यस्तस्मात् सायनांशादेव। तथा-यस्मादुदयसम्बन्धिनौ भुक्तभोग्यकालौ साध्यौ तस्मादपिसायनांशादेव। सायनार्कस्य दोर्ज्या जिनभागज्ययागुणिता त्रिज्यया भक्ता क्रान्तिज्या स्यादित्यादिस्पष्टार्थम्। अस्योपपत्तिः। विषुवत्क्रान्तिवृत्तयोर्या-म्यीत्तरमन्तरं क्रान्तिः। तयोर्हिः संपाते क्रान्त्यभावः। ततस्त्रिभेऽन्तरे परमा जिनतुल्यमागाः। अतस्तत्-[Page2068-a+ 38] संपातादारभ्य क्रान्तिः साध्या। उदयाश्च तत एव। सतु संपातो मेषादेः प्रागयनांशतुल्येऽन्तरे। अतः साय-नांशात् खेटात् क्रान्तिर्भुक्तभोग्यकालौ चेत्युक्तम्। यदित्रिज्यातुल्यया भुजज्यया जिनांशज्यातुल्या क्रान्तिज्यालभ्यते तदेष्टज्यया किमिति। फलं क्रान्तिज्याविषुवद्वृत्तात् तिर्यग्रूपा भवति। क्रान्तिज्या भुजस्त्रि-ज्या कर्णस्तद्वर्गान्तरपदमहोरात्रवृत्तव्यासार्धम्। सैवद्युज्या। अथ कुज्योच्यते। यदि द्वादशकोटेः पलभाभुजस्तदा क्रान्तिज्याकोटेः किमिति। फलं क्षितिजो-न्मण्डलयोर्मध्येऽहोरात्रवृत्ते ज्यारूपं स्यात्। सैवकुज्या। सा धनुःकरणार्थं त्रिज्यवृत्ते परिणाम्यते। यदि द्युज्याव्यासार्धे एताबती तदा त्रिज्याव्यासार्थे कि-मिति। फलं चरज्या। तद्धनुश्चरमित्युपपन्नम्। ” प्रमि॰अक्षक्षेत्र शब्दे

४२ पृ॰ दर्शिते सि॰ शि॰ वाक्ये दृश्यम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुज्या/ कु--ज्या f. = क्षिति-ज्या.

कुज्या/ कु-ज्या See. 2. कु.

"https://sa.wiktionary.org/w/index.php?title=कुज्या&oldid=279096" इत्यस्माद् प्रतिप्राप्तम्