कुञ्जरच्छाय
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुञ्जरच्छाय¦ न॰ कुञ्जरस्यछायायत्र।
“योगोमघात्रयो-दश्यां कुञ्जरच्छायसंज्ञितः। भवेन्मघायां संस्थे च शशिन्यर्केकरस्थिते” इत्युक्ते योगभेदे। विवृतमेतत् ति॰ त॰ यथा
“करे हस्तायां तत्स्थे सूर्य्ये। मघासंस्थे चन्द्रे चेतिमघात्रयोदश्यां कुञ्जरच्छायसंज्ञितो योगो भवति। हस्ता-वस्थानञ्च सूर्य्यस्य कन्यादशमांशोत्तरकिञ्चिदधिकसपा-दत्रयोदशांशं
१३ ,
२० यावत्। नचानेन कुञ्जरच्छाययोगःसङ्केतितो नतु गजच्छायेति वाच्यं कुञ्जरच्छायस्य गज-च्छायादिका संज्ञा जाता अस्येतीतच्प्रत्ययेन गजच्छाया-याअपि सङ्केतितत्वात् (धुस्तूरः कनकाह्वयः) इतिवत्। व्यक्तं कृत्यचिन्तामणौ।
“कृष्णपक्षे त्रयोदश्यां मघास्विन्दुःकरे रविः। यदा तदा गजच्छाया श्राद्धे पुण्यैरवाप्यते। ”
“एवञ्च श्राद्धे निमित्तान्तरत्वेनानङ्गीकाराद्गौडीयमैथि-लाभ्यां कुञ्जरच्छाययोगः फलातिशयार्थ इत्युक्तम्। ताश्च मघात्रयोदशीश्राद्धं कृत्वा परदिने कुञ्जरच्छाय-योगे श्राद्धं कर्त्तव्यमिति वाचस्पतिमिश्रोक्तं हेयम्। ” मनुव्या॰ कुल्लूकभट्टेन एतस्य तिथ्यन्तरेऽपि सम्भव उक्तः[Page2069-a+ 38] यथा
“अपि नःस कुले जायात् यो नो दद्यात् त्रयोदशीम्। पायसं मधुसर्पिभ्यां प्राक्छाये कुञ्जरस्य च” मनुव्याख्यायाम्
“प्रकृतायां त्रयोदश्यां तथा तिथ्यन्तरेऽपि हस्तिनःपूर्वां दिशं गतायां छायायां मधुवृतसंयुक्तं पायसं द-द्यात्। नतु त्रयोदशीहस्तिच्छाययोः समुच्चयः य-थाह विष्णुः
“अपि जायेत सोऽस्माकं कुले कश्चिन्नरो-त्तमः। प्रावृट्कालेऽसिते पक्षे त्रयोदश्यां समाहितः। मधुप्लुतेन यः श्राद्धं पायसेन समाचरेत्। कार्त्तिकंसकलं वापि प्राक्छाये कुञ्जरस्य च”। इत्युक्तम् तेनास्यपृथङिनमित्तता। अन्येतु
“राहुर्वे हस्ती भूत्वा चन्द्र-मसं गृह्णातीति” श्रुतेः कुञ्जररूपस्य राहोश्छायायत्रइति व्युत्पत्त्याग्रहणपरतामाहुः। गजच्छायादयोऽप्यत्र
