कुटजरस
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुटजरस¦ पु॰ चक्र॰ उक्ते अर्शोनाशके रसभेदे यथा-
“कुटजत्वचो विपाच्य शतपलमार्द्रं महेन्द्रसलिलेन। यावत्स्यादरसं तद्द्रव्यं स्वरसस्ततो ग्राह्यः। मोचरसः सम-ङ्गा फलिनी पलाशिभिस्त्रिभिस्तैश्च। वत्सकबीजं तुल्यंचूर्णीकृतमत्र दातव्यम्। पूतोत्क्वाथितः सान्द्रः सरसीदर्वीप्रलेपनो ग्राह्यः। मात्राकालोपहिता रसक्रियैषाजयत्यसृक्स्रावम्। छागलीपयसा युक्ता पेया मण्डेनाथ-वा यथाग्निबलम्। जीर्णौषधश्च शालीन् पयसा छागेन-भुञ्जीत। रक्तं गुदजातीसारं शूलं सासृग्रुजो नि-हन्त्याशु। बलवच्च रक्तपित्तं रसक्रियैषा ह्युभयभागम्”।
