सामग्री पर जाएँ

कुटजलेह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुटजलेह¦ पु॰ चक्रदत्तोक्ते अतिसारनाशके लेहभेदे यथा
“शतं कुटजमूलस्य क्षुण्णं तोयार्पणैः पचेत्। क्वाथे पादा-वशेषेऽस्मिन् लेहं पूते पुनः पचेत्। सौवर्चलयवक्षारवि-डसैन्धवपिप्पलीम्। धातकीन्द्रयवाजाजीचूर्णं दत्त्वा पल-द्वयम्। लिह्याद्वदरमात्रं तत् शीतं क्षौद्रेण संयुतम्। पक्वापक्वमतीसारं नानावर्णं सवेदनम्। दुर्व्वारं ग्रहणी-रोगं जयेच्चैव प्रवाहिकाम्”। अर्शोरोगनाशके तत्रोक्ते

२ लेहभेदे च यथा-
“कुटजत्वक्पलशतं जलद्रोणे विपाचयेत्। अष्टभागाव-शिष्टन्तु कषायमवतारयत्। वस्त्रपूतं पुनः क्काथं पचेल्लेह-त्वमागतम्। भल्लातकविडङ्गानि त्रिकटुत्रिफलान्तथा। रसाञ्जनं चित्रकञ्च कुटजस्य फलानि च। वचामतिविषांविल्वं प्रत्येकञ्च पलं पलम्। त्रिंशत्पलानि गुडस्य चूर्णीकृत्य निधापयेत्। मधुनः कुडवं दद्यात् घृतस्य कुडवन्त-था। एष लेहः शमयति चार्शोरक्तसमुद्भवम्। वातिकंपैत्तिकञ्चैव श्लैष्मिकं सान्निपातिकम्। ये च दुर्नामजारोगास्तान् सर्व्वान् नाशयत्यपि। अम्लपित्तमतीसारंपाण्डुरोगमरोचकम्। ग्रहणीमार्द्दवं कार्श्यं श्वयथुंकामलामपि। अनुपानं घृतं दद्यात् मधु तक्रं जलं[Page2070-b+ 38] पयः। रोगानीकविनाशाय कौटजो लेह उच्यते”।

"https://sa.wiktionary.org/w/index.php?title=कुटजलेह&oldid=279277" इत्यस्माद् प्रतिप्राप्तम्