कुटजाष्टक
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुटजाष्टक¦ पु॰ चक्रदत्तोक्ते अतिसारादिरोगनाशके औषध-भेदे यथा
“तुलामथार्द्रां गिरिमल्लिकायाः संक्षुद्य पक्त्रा रस-माददीत। तस्मिन् सुपूते पलसाम्भतानि श्लक्ष्णानि पिष्ट्वासह शाल्मलेन। पाठां समङ्गातिविषां समुस्तां विल्वंच पुष्पाणि च धातकीनाम्। प्रक्षिप्य भूयो विपचेत् तुतावत् दर्वीप्रलेपः स्वरसस्तु यावत्। पीतस्त्वसौ काल-विदा जलेन मण्डेन वाऽजापयसाऽथवाऽपि। निहन्तिसर्वं त्वतिसारमुग्रम् कृष्णं सितं लोहितपीतकं वा। दोषं ग्रहण्या विविधं च रक्तं शूलं तथार्शांसि सशो-णितानि। असृग्दरञ्चैवमसाध्यरूपं निहन्त्यवश्यं कुट-जाष्टकोऽयम्।
