कुटन्नट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुटन्नटम्, क्ली, (कुटन् वक्रीभवन् सन् नटति । नट स्पन्दने + पचाद्यच् ।) कैवर्त्तीमुस्तकम् । इत्यमरः । २ । ४ । १३१ ॥ केउटिया मुता इति ख्यातम् । केशुर इति नीचोक्तिः । इति तट्टीका ॥ (अस्य व्यवहारो यत्र तद्यथा । “पद्मकं चन्दनोशीरं पाठं मूर्व्वां कुटन्नटम्” ॥ इति वाभटे चिकित्सास्थाने १० अध्याये । अस्य पर्य्यायाः यथा । “कुटन्नटं परं बल्यं मुस्ताभञ्च परीलवम्” ॥ इति वैद्यकरत्नमालायाम् ॥ कोसची मोथा । गुडतजी इति च । इयन्तु वितु- न्नकनाम्नो वृक्षस्य त्वक् मुस्ताकृतिः ॥ पर्य्यायाश्च-यथा । “कुटन्नटं दासपुरं बालेयं परिपेलवम् । प्लवगोपुरगोनर्द्दकैवर्त्तीमुस्तकानि च । मुस्तावत् पेलवपुटं शुक्राभं स्याद्वितुन्नकम्” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥ गुणा श्चास्य वितुन्नकशब्दे ज्ञातव्याः ॥)
कुटन्नटः, पुं, (कुटन् सन् नटति । नट् + अच् ।) श्योनाकवृक्षः । इत्यमरः । २ । ४ । ५७ ॥ (अस्य पर्य्याया यथा । “श्योनाकः शोषणश्च स्यान्नटकट्वङ्गटुण्टुकः । मण्डूकपर्णपत्रोणं शुकनासकुटन्नटाः । दीर्घवृन्तो रलुश्चापि पृथुशिम्वः कटम्भरः” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ श्यो- नाकशब्देऽस्य गुणाश्च बोद्धव्याः ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुटन्नट पुं।
शोणकः
समानार्थक:मण्डूकपर्ण,पत्रोर्ण,नट,कट्वङ्ग,टुण्टुक,स्योनाक,शुकनास,ऋक्ष,दीर्घवृन्त,कुटन्नट,शोणक,अरलु
2।4।57।1।5
स्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः। शोणकश्चारलौ तिष्यफला त्वामलकी त्रिषु॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
कुटन्नट नपुं।
कैवर्तीमुस्तकम्
समानार्थक:कुटन्नट,दाशपुर,वानेय,परिपेलव,प्लव,गोपुर,गोनर्द,कैवर्तीमुस्तक
2।4।131।2।1
काक्षी मृत्स्ना तुवरिका मृत्तालकसुराष्ट्रजे। कुटन्नटं दाशपुरं वानेयं परिपेलवम्.।
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुटन्नट¦ पु॰ कुटन् सन् नटति नट--अच्।
१ श्योनाकवृक्षे(शोना) अमरः
२ कैवर्त्तीमुस्तके (केशर) न॰ अमरः अत्र-कुटन्नक इति पाठान्तरम्
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुटन्नट¦ m. (-टः) A plant, (Bignonia Indica.) n. (-टं) A fragrant grass, (Cyperus rotundus.) E. कुटन् being crooked, नट् to dance or wave, and अच् aff.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुटन्नट/ कुटन्--नट m. the fragrant grass Cyperus rotundus Bhpr.
कुटन्नट/ कुटन्--नट m. Calosanthes indica Sus3r.