सामग्री पर जाएँ

कुटन्नटम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुटन्नटम्, क्ली, (कुटन् वक्रीभवन् सन् नटति । नट स्पन्दने + पचाद्यच् ।) कैवर्त्तीमुस्तकम् । इत्यमरः । २ । ४ । १३१ ॥ केउटिया मुता इति ख्यातम् । केशुर इति नीचोक्तिः । इति तट्टीका ॥ (अस्य व्यवहारो यत्र तद्यथा । “पद्मकं चन्दनोशीरं पाठं मूर्व्वां कुटन्नटम्” ॥ इति वाभटे चिकित्सास्थाने १० अध्याये । अस्य पर्य्यायाः यथा । “कुटन्नटं परं बल्यं मुस्ताभञ्च परीलवम्” ॥ इति वैद्यकरत्नमालायाम् ॥ कोसची मोथा । गुडतजी इति च । इयन्तु वितु- न्नकनाम्नो वृक्षस्य त्वक् मुस्ताकृतिः ॥ पर्य्यायाश्च-यथा । “कुटन्नटं दासपुरं बालेयं परिपेलवम् । प्लवगोपुरगोनर्द्दकैवर्त्तीमुस्तकानि च । मुस्तावत् पेलवपुटं शुक्राभं स्याद्वितुन्नकम्” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥ गुणा श्चास्य वितुन्नकशब्दे ज्ञातव्याः ॥)

"https://sa.wiktionary.org/w/index.php?title=कुटन्नटम्&oldid=127194" इत्यस्माद् प्रतिप्राप्तम्