सामग्री पर जाएँ

कुटिलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुटिलम्, त्रि, (कुट् वक्रीभावे + बाहुलकात् इलच् ।) अनृजु । वा~का इति भाषा । तत्पर्य्यायः । अरालम् २ वृजिनम् ३ जिह्मम् ४ ऊर्म्मिमत् ५ कुञ्चितम् ६ नतम् ७ आविद्धम् ८ भुग्नम् ९ वेल्लितम् १० वक्रम् ११ । इत्यमरः । ३ । १ । ७१ ॥ मङ्गुरम् १२ । इति हेमचन्द्रः ॥ वेङ्कु १३ विनतम् १४ उन्दुरम् १५ । इति शब्दरत्नावली ॥ (यथा, विष्णुपुराणे १ । ९ । २३ । “ज्वलज्जटाकलापस्य भृकुटीकुटिलं मुखम् । निरीक्ष्य कस्त्रिभुवने मम यो न गतो भयम्” ॥) तगरपुष्पे क्ली । इति राजनिर्घण्टः ॥ (अस्य पर्य्याया यथा, -- “कालानुशारिवा वक्रं तगरं कुटिलं शठम् । महोरगं नतं जिह्मं दीनं तगरपादिकम्” ॥ इति वैद्यकरत्नमालायाम् ॥ क्ली, छन्दोभेदः ॥)

"https://sa.wiktionary.org/w/index.php?title=कुटिलम्&oldid=127215" इत्यस्माद् प्रतिप्राप्तम्