कुटुम्बव्यापृतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुटुम्बव्यापृतः, त्रि, (कुटुम्बभरणाय व्यापृतः नियुक्तः ।) कुटुम्बपोषणासक्तः । तत्पर्य्यायः । अभ्यागारिकः २ उपाधिः ३ । इत्यमरः । ३ । १ । ११ ॥ (कुटुम्बेन पुत्त्रदारादिपोष्यवर्गेण व्यापृतः संयुक्तः । बहु- परिवारविशिष्टः पुरुषः ॥)
