कुटुम्बी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुटुम्बी, [न्] पुं, (कुटुम्बः अस्त्यस्य । अस्त्यर्थे इनिः ।) गार्हस्थ्याश्रमविशिष्टः । तत्पर्य्यायः । गृही २ गृहमेधी ३ गृहस्थः ४ । इति जटाधरः ॥ (यथा, कुमारे । ६ । ८ । ५ । “शैलः सम्पूर्णकामोऽपि मेनामुखमुदैक्षत । प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्विनः” ॥)
कुटुम्बी [न्], त्रि, (कुटुम्बः पोष्यवर्गो ऽस्त्यस्य अस्त्यर्थे इनिः ।) कृषकः । इति शब्दचन्द्रिका ॥ कुटुम्ब- विशिष्टश्च ॥
