कुठारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुठारः, पुं स्त्री, (कोठतीत्यनेन । कुठ + करणे आरन् ।) अस्त्रविशेषः । कुडाल इति भाषा । तत्पर्य्यायः । सुधितिः २ परशुः ३ परश्वधः ४ । इत्यमरः । २ । ८ । ९२ ॥ कुठारी ५ पर्शुः ६ परश्वधः ७ पर्श्वधः ८ । इति तट्टीका ॥ कुठाटङ्कः ९ द्रुघणः १० । इति जटाधरः ॥ (यथा, श्रीमद्भागवते ३ । २५ । १२ । “तं त्वागताहं शरणं शरण्यं स्वभृत्यसंसारतरोः कुठारम्” ॥)
कुठारः, पुं, (कुठ्यते छिद्यतेऽसौ । कुठ + कर्म्मणि आरन् ।) वृक्षः । इति शब्दरत्नावली ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुठारः [kuṭhārḥ] री [rī], री 1 An axe, or hatchet; मातुः केवलमेव यौवन- वनच्छेदे कुठारा वयम् Bh.3.11.
A sort of hoe or spade; Kau. A.2.3. -रः A tree.
