कुणञ्जरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुणञ्जरः, पुं, (कुणं भुक्तान्नादिकं जरयति । कुण + जॄ + बाहुलकात् खच् ।) वृक्षविशेषः । वनवेतुया इति भाषा । तत्पर्य्यायः । कुणञ्जा २ कृणञ्जः ३ अरण्यवास्तूकः ४ । अस्य गुणाः । मधुरत्वम् । रुचिकारित्वम् । दीपनत्वम् । पाचनत्वम् । हित- त्वञ्च । एतच्छाकगुणाः । त्रिदोषनाशित्वम् । मधुरत्वम् । रुचिकारित्वम् । दीपनत्वम् । ईष- त्कषायत्वम् । संग्राहित्वम् । पित्तश्लेष्महरत्वम् । लघुत्वञ्च । इति राजनिर्घण्टः ॥
