कुण्डपायिनामयन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुण्डपायिनामयन¦ न॰
६ त॰ अलुक् स॰। सत्रभेदे तदिति-कर्त्तव्यतादिकम् आश्व॰ श्रौ॰
१२ ।
२ ।
३ --सूत्रादौ उक्तं यथा
“कुण्डपायिनामयनम्” सू॰।
“एतन्नामकमिदं सत्रमधि-कृतं वेदितव्यम्” वृ॰।
“मासन्दीक्षिता भवन्ति” सू॰।
“अयंमासशब्द एकान्नविंशतिरात्रे उपचरितः, एकान्नविंशति-रात्रादिकं सावनवद्भवतीत्यर्थः” वृ॰।
“ते मासि सोमंक्रीणन्ति” सू॰।
“अयमप्युपचार एव दीक्षाकाले। मास्यतीते दीक्षिताः सोमं क्रीणन्तीत्यर्थः” वृ॰।
“तेषांद्वादशोपसदो भवन्ति” सू॰।
“सात्रिकाणान्दीक्षाणामपवादोदीक्षाविधिः, तथा सात्रिकाणामुपसदामपवादोऽयमुपस-द्विधिः” वृ॰।
“सोममुपनह्य प्रवर्ग्यपात्राण्युत्साद्योपनह्यवा मासमग्निहोत्रं जुह्वति” सू॰।
“उपत्सस्वतीतासु प्रव-र्ग्य पात्राण्युत्साद्योपनह्य वा तानि तानि, ते एकं मासम्अग्निहोत्रं जुह्वति सायं प्रातः” वृ॰।
“प्रातरुपक्रमः साय-मपवर्गः” सू॰
“प्रातःकालस्य प्रथमप्राप्तत्वात् उपसत्कालेद्वादशाहेऽतीतेऽग्नि होत्रस्य प्रातरारम्भान्नैमित्तिकादग्नि-होत्रात् कर्म्मात्तरमेतदिति न्यायविदां प्रसिद्धम्” वृ॰।
“मासं दर्शपूर्णमासाभ्यां यजन्ते” सू॰।
“अग्निहोत्र-मासेऽतीते ततः अनन्तरमेकं मासं दर्शपूर्णमासाभ्यां य-जन्ते” वृ॰।
“कृष्णपक्षेऽहरहः पौर्णमास्या, शुक्लपक्षेऽह-रहरमावास्यया, मित्रावरुणयोरयने तथा दृष्टत्वात्” सू॰।
“एवमत्र सम्पादनीयम्--यथा कृष्णपक्षादौपौर्णमास्याऽहः सम्भवति, तत्र दीक्षारम्भः कर्त्तव्यइति” वृ॰।
“मासं वैश्वदेवेन” सू॰।
“अहरहरनेनयष्टव्यम्। वैश्वानरपार्जन्या तु न भवति आरम्भा-र्थत्वात्तस्याः, स चारम्भःसत्रे न प्रसक्त इति” वृ॰।
“भासंवरुणप्रघामैः मासं शाकमेधैः एतैरहरहर्यजेरन्” मू॰
“ए-काहेनापवृज्य प्रकृतेर्द्व्यहसमापनीयत्वाद्द्व्यहेन वा कुर्य्या-त्। अध्वर्युप्रत्ययात्समापनमिति स्थितिः” वृ॰।
“मासं शु-नासीरोषेण” मू॰।
“अनेनाप्यहरहरेव” वृ॰।
“यदहर्मासः[Page2088-b+ 38] पूर्यते तदहरिष्टिं समाप्याग्निप्रणयनादिधर्मोत्सादनादिवौपवसथिकं कर्म॰ कृत्वा श्वोभूते प्रसुनुयुः” सू॰।
“यस्मिन्नहनिमासः पूर्यते तस्मिन्नहनि शुनासीरीयेष्टिं समाप्य तदन-न्तरं यदि पूर्वमेव प्रवर्ग्यपात्राण्युत्सादितानि तदाग्नि-प्रणयनाद्यौपवसथिकंकर्म कृत्वा सुत्यारम्भः” वृ॰।
“तद्धैकउपसद्भ्य एवानन्तरं कुर्वन्ति तथादृष्टत्वात् सौत्यान्मासा-नग्निहोत्रादीन् वदन्तः” सू॰।
“तदिदमग्निप्रणयनाद्यौप-वसथिकं कर्म कुण्डपायिनामयने अग्निहोत्रादिमासेभ्यःकर्त्तव्यमित्युक्तम् तत्रैक आहुः तत्कर्माग्निहोत्रादि-मासेभ्यः प्रागुपसद्भ्योऽनन्तरं कर्त्तव्यमिति। तत्र हेतु-माहुः प्रकृतौ तथादृष्टत्वादिति। न त्वग्निहोत्रादिमा-सेभ्य उपरिष्टात्, क्रियमार्णे वा औपवसथिके सुत्यानन्तर-स्य विद्यमानत्वादिति। तथादृष्टत्वात्साधारणमिति, तत्-परिहारार्थमग्निहोत्रादिमासान् सौत्यानिति। कथम्?अस्य सत्रस्य गवामयनप्रकृतिकत्वात्तस्य सांवत्सरिकत्वात्कुण्डपायिनामयने त्रिवृदादयः षण्मासा एकः पक्षः,अग्निहोत्रादयः षण्मासा अपरः पक्ष इति मन्यमानाः। एवं च उपसदाञ्च सुत्याञ्च सुत्ये औपवसथिकस्य कृतत्वान्नकश्चिद्धेतुदोष इति वदन्तोऽग्निहोत्रादिमासेभ्यः प्रागुप-सद्भ्यः ऊर्ध्वमौपवसथिकं कुर्वन्ति। एतदुक्तम् भवति। अग्निहोत्रादिमासान् सुत्यानिति मन्यमानाः तेभ्यःपुरस्तादुपसद्भ्य ऊर्ध्वं औपवसथिकं कर्म केचित् कुर्वन्तिप्रकृतौ तथादृष्टत्वादिति। यदेतदग्निहोत्रादिमासान् सौ-त्यानिति वदन्ति तदनुपपन्नम्। कुतः? सोमयागस्वरू-पत्वात् सुत्यानाम्’ अग्निहोत्रादीनां तु हविर्यज्ञस्वरूप-त्वादसुत्यत्वमिति। यत्पुनरिदमुक्तं गवामयनप्रकृतिकत्वा-दग्निहोत्रादिमासैः पूर्वपक्षसिद्धिरिति। तदयुक्तम्सोमयागानामेव गवामयनप्रकृतिकत्वं पूर्वपक्षस्त्वमुत्तरपक्ष-स्त्वञ्चेति। अग्निहोत्रादयोऽस्मिन् सत्रे अप्राकृता आ-गन्तवः कर्मविशेषाः अतस्तेषान्तत्स्थानापन्नत्वमपि न सम्भवति। अतस्तेषां सुत्यत्वन्न सम्भवति। सुत्यत्वासम्भ-वे तथादृष्टत्वादित्यस्य हेतोः साधारण्यादसाधकत्वादित्य-नेनाभिप्रायेणोक्तं भगवताचार्येण
“तदनुपपन्नम् इति” वृ॰
“पश्वर्थंद्ध्यग्निप्रणयनन्तस्य च श्वःसुत्यानिमित्तम्” सू॰।
“परो-क्तस्य हेतोरसाधकत्वमुक्त्वा स्वपक्षं समर्थयति। औपवसथेषुकर्मसु यः पशुभागः सः श्वःसुत्यानिमित्तमिति प्रत्यक्षं श्रू-यते‘ अग्नीषोमाभ्यामिन्द्रो वृत्रमहंस्तावेनमब्रूताम्’ इ-त्यादिना। अतो वचनात् पशोः सुत्यानन्तर्यमेव स-[Page2089-a+ 38] म्पादनीयम्। तत्र यदग्निप्रणयनन्तत् सोमयागार्थमेबपशोरप्युपकरोति प्रसङ्गादिति पश्वर्थमित्युक्तम्। अतोऽ-ग्निप्रणयनस्य पशोः श्वःसुत्यानन्तर्यमेव कर्त्तुं युक्तम्” वृ॰।
“अतिप्रणीतचर्यायां च वैगुण्यं दर्शपूर्णमासयोः तथा-ग्निहोत्रस्य” सू॰
“एवं तावदौपवसथिकस्य अग्निप्रणयना-देरग्निहोत्रादिमासेभ्य ऊर्द्ध्वमेव कर्त्तव्यतां प्रतिपाद्येदा-नीमग्निप्रणयनस्याग्निहोत्रादिमासेभ्यः पुरस्तात् क्रिया-यां दर्शपूर्णमासयोरग्निहोत्रस्य च वैगुण्यं भवती-ति प्रतिपादयति। कुतः? इति चेत्, प्रकृतौ नैयमिकेऽति-प्रणीते उत्तरवेद्यान्तयोर्यागादिदर्शनात्। अतो वैगुण्यकर-त्वादग्निप्रणयनन्तावत् पुरस्तान्न कर्त्तव्यमित्यस्य विशेषोऽ-न्येभ्य इत्युक्तम्” वृ॰।
“सदो हविर्धानान्याग्नीध्रीयाग्नि-षोमप्रणयनवसतीवरीग्रहणानि पश्वर्थानि भबन्ति सुत्या-र्थान्येके” सू॰।
“एवंतावदौपवसथिकेषुयः, सःश्वःसुत्यानि-मित्तत्वादग्निहोत्रादिमासेभ्य ऊर्ध्वं कर्त्तव्यैत्युक्तम्। अग्निप्रणयनञ्च सुत्यार्थत्वात् पशोरप्युपकारकत्वाच्च पु-रस्तात् क्रियायाञ्चाग्निहोत्रादीनां वैगुण्यकरत्वात्तद्वदि-त्युक्तम्। इदानीं येषां श्वःसुत्यावचनं नास्ति श्रुत्यादिभि-स्तु सुत्याङ्गभावोऽस्त्येव अङ्गभावश्च सन्निपत्योपकार-द्वारेण, तेषां सुत्याकर्मणोद्देशादिसाधन इत्यकल्परूपाणांसदआदीनामग्निहोत्रादिमासेभ्यः पुरस्तात् करणे किञ्चि-ददृष्टं दृष्टं वा प्रयोजनं नास्ति। तेषां पुरस्तात् करणेप्रमाणं च नास्ति, कुतः?” वृ॰।
“तत्कालाश्चैव तद्गुणाः” सू॰।
“यस्य प्रधानस्य यः कालः स एव कालस्तद्गुणानांप्रधानकाल एव अङ्गानां मुख्यकाल इत्यर्थः। तदेतन्न्यायविदां प्रसिद्ध्वम्। अत एव प्रसिद्धवदुप-दिष्टवानाचार्यः‘ तत्कालाश्चैव तद्गुणाः, इति। एतदुक्तं भवति यस्मात् प्रधानकाला एव प्रधानगुणाःतस्मात् सदआदीनामग्निहोत्रादिमासेभ्यः पुरस्तादक्रियैव। तत्कालाश्चैव तद्गुणा इति चशब्दोऽत्र पठितः प्रधान-काले च गुणाः कर्त्तव्या इत्यर्थः। सदआदीनाम्पश्वर्थ-तावचनम् अभ्युपगम्य सदआदोनि पश्वर्थानि वा भवन्तु,सुत्यार्थानि वा, सर्वथा तावदग्निहोत्रादिभ्यः पुरस्तात्क्रिया न स्यादित्ययमभिप्रायः। अङ्गानां प्रधानकाल-त्वमुक्त
“तत्कालाश्चैव तद्गुणाः, इति। यानि पुनरङ्गानिब्रधानकालाद्विप्रकृष्टानि, यथा‘ अग्निमारुतादूर्ध्वमनुयाजै-श्वरन्ति” इति तेषां पश्वर्थता नास्ति सौमिकैः पदार्थैर्व्य-वधानादिति। अतोऽनुयाजसदृशानि कर्मान्तराणि सोमा-[Page2089-b+ 38] ङ्गत्वेनैव विधीयन्त इति प्राप्ते उच्यते” वृ॰।
“सिद्धस्वभा-वानां न व्यवधानादन्यत्वं यथा पृष्ठ्याभिप्लवयोः” सू॰।
“प्रकृतौ सिद्धस्वभावानां पदार्थानां विकृतौ पदार्थान्तर-व्यवधानमात्रेण तेषामन्यत्वं न स्यात्। अनन्यत्वे च प्रा-कृतोषकारत्वेनाङ्गत्वमपि स्यात्। प्राकृतानां विकृतावुप-कारद्वारेण हि पदार्थानां प्राप्तानानामनुपकारकत्वमित्ययुक्तंयदि परं व्यवधानादन्यत्वं भवति। अतो विप्रकृष्टकालाअपि पदार्थास्तद्गुणा एव भवन्ति, तद्ध्यनपगमादिति कर्मा-न्तरत्वपक्षे वाक्यभेदादिति प्रसज्येत। यथा पृष्ठ्याभिप्लव-योरिति व्यवधानादन्यत्वाभावे दृष्टान्तः। यथा पृष्ठ्यस्यवाभिप्लवस्य वान्यस्य वा सङ्घाते रूपविशेषस्य मध्येयजमानमरणस्य निमित्तेन नैमित्तिकमहरन्तरमुप-जायते तत्र तेन व्यवधानमस्ति, तथा पृष्ठ्यादिसङ्घा-तविशेषबुद्धिर्नापैति तद्वदत्रापीति। यस्माद्व्यवधानात्पदार्थान्यत्वं नास्ति, अत एवौपवसथिकस्याग्निहो-त्रादिमासेभ्यः पुरस्तात् क्रियाशङ्कानिराकरणार्थमिदंप्रकरणमारब्धम्। कानिचिदङ्गानि तत्कालानि कानि-चिद्विप्रकृष्टकालानीत्येवमुभयथा व्यवहारोऽस्ति। सर्वथातावदग्रिहोत्रादिमासेभ्यः पुरस्तादौपवसथिकं न कर्त्त-व्यमिति प्रकरणार्थः” वृ॰।
“सगुणानां ह्येव कर्मणामुद्धारउपजनो वा” सू॰
“अयमप्यग्निहोत्रादिमासेभ्यः उपरि-ष्टादौपवसथिकक्रियायां हेतुः। यस्मात् प्रधानकर्मणामु-द्धारे उपजने--उत्कर्षे च सगुणानामेव सर्वत्रोद्धारादिर्दृष्टःयथा स्नानभोजनविहाराणामहरहः कार्याणाङ्कस्यचिदु-द्धारे सगुणस्यैवोद्धारो दृष्टः, उत्कर्षे च सगुण एवोत्कृष्यते,एतेषां नित्यकार्याणामन्तराले अन्यन्नैमित्तिकमुपजायमानंसगुणमेवोपजायते, एवमत्रापि वैशेषिकैरग्निहोत्रादिभि-रुत्कृष्यमाण, सौत्यं कर्म आत्मनो गुणभूतेन औपवसथिकेनसहोत्कृष्यते। हिशब्दः प्रसिद्धौ। यस्मात् सर्वत्र उद्धा-रोपजनोत्कर्षाः सगुणानामेव दृष्टाः तस्मादत्रापि सगुणस्यसौत्यस्य उत्कर्षो युक्त इति सूत्रार्थः” वृ॰।
“सुब्र-ह्मण्या त्वत्यन्तम्” सू॰।
“प्रासङ्गिकोऽयं सुब्रह्मण्यावि-चारः प्रकृतावुपसत्सुत्याकालत्वात्। सुब्रह्मण्यायाःअग्निहोत्रादिमासानाञ्च सुत्योपसदभावात् सुब्रह्मण्यायाअभावशङ्का स्यात्, तत इदमुच्यते। सुब्रह्मण्याया अयंविशेषः। अत्यन्तं--नित्यं कर्त्तव्या, अग्निहोत्रादिमासेष्वपिअप्राकृतोऽयङ्काल इति नोत्स्रष्टव्या। अनवधृतेहका-लसंशयत्वात्। प्रकृतावुपसत्सुत्याकाला सती सुब्रह्मण्या[Page2090-a+ 38] तकालविशेषविशिष्टाहूयते। इह पुनरप्राकृतत्वात्कालस्यतेनोपलक्षणं प्रकृत्या सुब्रह्मण्याया अयुक्तमिति मन्य-मानेनानवधृता कालसङ्ख्याविशेषणाह्वातव्या। सुत्यामा-गच्छेति कालसंशयत्वादित्यस्यायमर्थः। प्रकृतौ द्वादशा-हे सुत्यानीत्यादयःसङ्ख्याविशेषाः किमुपसदहःसङ्ख्या-विशेषप्रयुक्ताः आहोस्वित्प्राक्सुत्याबन्त्यहानि। तत्र तदहः-सङ्ख्याप्रयुक्ता इत्येवङ्कालसंशयत्वादित्यर्थः” वृ॰।
“उत्सर्गमेके सुत्योपसद्गुणत्वात्” सू॰।
“सुब्रह्मण्यायाउत्सर्गमेके इच्छन्ति सुत्योपसद्गुणत्वात्। किमिदं सुत्यो-पसद्गुणत्वमिति? सुत्यानामेवायङ्गुणो नोपसदां क्रमा-ल्लिङ्गं बलीय इति। अतोऽयमुपसदाङ्गुण उपसत्का-लवर्त्तित्वात् उपसद्गुणत्वोपचारः अग्निहोत्रादिमासा-नामसुत्यत्वात् उपसत्कालत्वात् सुव्रह्मण्योत्सर्गमेक आहु-रित्यर्थः” वृ॰।
“क्रिया त्वेव प्रवृत्ते ह्यन्तमगत्वाऽवस्थानेदोषः” सू॰।
“अस्याः क्रियैव निश्चीयते सोमयागसाध-नसंस्कारत्वात् मन्त्रस्य, प्रकृतौ सोमयागादूर्ध्वं यावत्सु-त्याकालस्तावदाहूयते। तद्वदत्राप्याह्वातव्या। तावतः-कालस्योपसत्स्वेवैतत्सम्बन्धादस्या उपसत्सम्बन्धः तदभा-वान्नास्यास्त्यागो युक्तः। अत्रायमपि विशेषोऽस्ति। औचित्यादपि न त्याज्या। आदितआरभ्य सर्वेष्वेवाहः-स्वाह्वयन्ति कथमिदानीं नाह्वयन्ति। नूनमयं सोमोऽ-स्मभ्यन्न दास्यत इति देवतायाः शङ्का स्यात् तन्निवृत्त्य-र्थमाह्वातव्या। प्रारब्धस्य मध्ये त्यागस्य कारणाभा-वात् त्यागे दोष एव स्यादित्यभिप्रायः। परवदर्थविचा-रोऽत्र स्वपदार्थपरिज्ञानार्थ एव। अतिप्रैषः श्वःसुत्यरू-पोह्यत इति” वृ॰।
“त्रिवृता मास पञ्चदशेन मासम्सप्तदशेन मासम् एकविंशेन मासम् त्रिणवेन मासम्अष्टादशत्रयस्त्रिंशानि द्वादशाहस्य दशाहानि। महा-व्रतञ्चातिरात्रश्च” सू॰।
“अत्र पृष्ठ्यस्य पञ्चभिरहोभिः पञ्चमासाः कर्त्तव्याः। षष्ठेनाष्टादशाहानि दशरात्रो महा-व्रतमुदयनीयः। कृत्स्नोक्तत्वान्नात्र प्रायणीयः” वृ॰।
“सर्वेणयज्ञेन यजन्ते य एतदुपयन्ति” सू॰।
“स्तुतिवादोऽयं बहू-नामत्र सम्भवादृत्विक्समासोऽनेन सूत्रकारेण न सूत्रितः। स कर्त्तव्यश्चेत् परप्रत्ययादेव कर्त्तव्यः” नारायणवृत्तिःकात्या॰ श्रौ॰
२४ ,
४ ,
२ , सूत्रादौ विशेष उक्तो यथा
“कण्डपायिनामयनं पौर्णमासीदीक्षम्” सू॰। कुण्डपा-विनामयनमिति सत्रस्य संज्ञा तस्य पौर्णमास्यां दीक्षाभवति” कर्कः।
“चतुर्य्यो वाऽपरपक्षस्य” सू॰। इति वि-[Page2090-b+ 38] कल्पः फाल्गुनापरपक्षस्य वा चैत्र्यां पौर्णमास्यामिति” कर्कः
“मासं दीक्षाः” सू॰।
“तस्य भवन्ति” कर्कः।
“सोम-मुपनह्य सुत्यास्थानेषु मासमग्निहोत्रं जुह्वति” सू॰। सोमोपनहनं कृत्वा यानि सुत्यास्थानानि तेष्वग्निहोत्र-होमः। अग्निहोत्रं च सायारम्भं प्रातरपवर्गम् तत्रद्वावपि होमौ कालैक्यात्तन्त्रेणोपक्रमितव्यौ। प्रधानस्यतु भेदः चतुर्गृहीतेनाग्नेयीं सायमाहुतिं हुत्वा पुनश्चतु-र्गृहीतेन सौरीमाहुतिं जुहोति तन्त्रेणोत्तरां जुहोति। गार्हपत्यकार्य्यं तत्र प्रागभिहितेएव न शालाद्वार्थ्ये,ज्योतिष्टोमे हि तच्छ्रुतम् न चाग्निहोत्रं ज्योतिष्टोमःन च तदङ्गत्वमिति आहवनीयस्त्वतिप्रणीत एव” कर्कः
“सोमबन्धनपूर्वकम् अत्राग्निहोत्रशब्दोनित्याग्निहोत्रधर्मा-तिदेशार्थः ततश्च तद्धर्मकं कर्मान्तरं मासपूर्तिपर्य्यन्तंप्रत्यहं भवति” सं॰ व्या॰।
“दर्शपूर्णमासाभ्यां मासम्” सू॰।
“नयेयुः” कर्कः।
“पक्षादौ यद्यद्धविस्तत्सर्वस्मिन्” सू॰।
“पक्षस्यादौ प्रतिपदि यद्यद्धविस्तदेव सर्वस्मिन् पक्षे भवतिसकले शुक्ले दर्शेष्टिः, सकले कृष्णे पौर्णमासेष्टिः” सं॰ व्या॰।
“सारस्वते च प्रथमे” सू॰।
“एवमेव” कर्कः
“तन्त्रेण वासमस्तचोदितत्वात्” सू॰।
“वाशब्दः पक्षव्यावृत्तौतन्त्रेणैव दर्शपूर्णमासौ कर्त्तव्यौ समस्तयोर्हि चोदना
“दर्श-पौर्ण्णमासाभ्यां मासमिति” नह्यत्र कालभेदकः तस्मादग्नि-होत्रवदत्रापि तन्त्रमेव” कर्कः
“नदर्शपौर्णमासस्य पक्ष-भेदेनानुष्ठानम् किं तर्हि तन्त्रेण कर्तव्यौ” कुतः? समस्तचोदितत्वात् समस्तयोरेव दर्शपौर्ण्णमासयोः प्रत्यहं मासपर्यन्तं विहितत्वात् सारस्वते तु पक्षभेदेनैव, तत्र तथैवविधानात्” सं॰ व्या॰। ‘ अग्निहोत्रं च” सू॰।
“अस्य सूत्रस्यपूर्वमेवाभिहितो न्यायः” कर्कः तन्त्रेण न तु नित्याग्नि-होत्रवत्सायम्प्रातः पृथक्पृथगिति अतो दिवसे एव साय-म्प्रातस्तनमग्निहोत्रं तन्त्रेणैव होतव्यम् एककालत्वाद-ङ्गानि तन्त्रेण प्रधानाहुतयस्तु भिन्नाः” सं॰ व्या॰।
“पृथङ्-मासाश्चातुर्मास्यपर्वभिः” सू॰
“नीयन्वे वैश्वदेवेन मासम्”
“वरुणप्रघासैर्मासम् साकमेधैर्मासम् शुनासीरीयेणमासमिति ताण्ड्य॰ श्रुतेः” कर्कः।
“पृथक् पृथक्-चत्वारो मासा नेयाः” सं॰ व्या॰।
“साकमेधा दर्शपूर्ण-मासवत्” सू॰।
“तन्त्रेणेत्युक्तो न्यायः” कर्कः।
“सोमावा सामान्वात्” सू॰।
“एते अग्निहोत्रादयः सोमा वाभवन्ति कुतः सामान्यात् सत्रं हि सोमयागैः पूरणीयम्” सं॰ व्या॰।
“न जुहोतिशब्दात्” सू॰।
“नैतदेवम् सोमा इति कुतः?[Page2091-a+ 38] एतत्? जुहोतिशब्दात्
“मासमग्निहोत्रं जुहोतीति” जुहोतिशब्दोऽत्र भवति न चासौ सोमयागेषु प्रसिद्धः तस्मान्नसोमा इति” सं॰ व्या॰।
“काममितरे” सू॰।
“इतरे तर्हिदर्शपूर्णमासादयो भवन्तु सोमाः न हि तत्र जुहोतिशब्दइति नेत्युच्यते दर्शपूर्णमासादयः शब्दा निरुपपदा एवदर्शपौर्ण्णमासादोन् सोमान् प्रत्थाययन्ति सोमोपपदाःनिरुपपदाश्चैते मासं दर्शपौर्ण्णमासाभ्यामिति तस्माद्दर्श-पौर्ण्णमासादयोऽपि न सोमा एते” सं॰ व्या॰। दर्शपीर्ण्ण-मासादयः कामं सोमा भवन्तु यतस्तत्र जुहोतिशब्दो-नास्ति परमार्थतस्तु तेऽप्यत्र सोमा न भवन्ति यतो दर्श-पूर्णमासादयः शब्दा निरुपपदा अत्र श्रूयन्ते न चातु-र्मास्यसोमा दर्शपूर्णमाससोमा इत्येवं सोमोपपदाः अ-तस्तेऽपि न सोमा इति सिद्धान्तः। एवं षण्मासाः प-रिपूर्णाः मासश्चात्र सर्वत्र सावनस्त्रिंशद्दिनात्मकः अथो-त्तरेषु षट्सु मासेष्वहान्याह” कर्कः।
“दृतिवातवतोरयन-पूर्वपक्षेण षण्मासान्” सू॰।
“दृतिवातवतोरयनस्य पूर्व्व-पूर्व्वपक्षेण षण्मासान् नयेयुः। तत्र विशेषमाह” कर्कः
“उत्तमे त्रयोऽभिप्लवा दशरात्रो महाव्रतम्” सू॰।
“उत्तमेद्वादशे मासे एतान्यहानि भवन्ति” सं॰ व्या॰।
“उपरिष्टा-दतिरात्रं भवति” सू॰।
“अनुग्रहश्रुतेः यदन्यतरतोऽति-रात्रस्तेनाहीन इति” देव॰
“अन्ते एक उदयनीयातिरात्रएव भवति न प्रायणीय इत्यर्थः” कर्कः।
“उभयतो वा” सू॰
“अतिरात्रो भवति सत्रत्वात् अनुग्रहश्रुतिस्तु अहीनत्वेनसंस्तौति तत्कथम्? हविर्यज्ञैर्व्यवहितत्वात्” देव॰
“अथ-वोभयतोऽतिरात्रं भवति प्रायणीयश्चोदयनीयश्चात्र द्वावपिभवत इत्यर्थः” सं॰ व्या॰।
“हविर्यज्ञेभ्योऽतिरात्रमेके सो-मानन्तर्यात्” स॰ हविर्यज्ञेभ्योऽवसितेभ्यः एके प्रायणीयम-तिरात्रमिच्छन्ति एवं सोमानन्तर्यं भवतिए के तन्नेच्छन्तिअग्नीषोमीयोत्तरकालता हि तस्य प्रकृतौ दृष्टा इहापि तद्व-देव तस्मात् प्रागेव हविर्यज्ञेभ्यः प्रायणीयः” कर्कः उभयतोऽतिरात्रपक्षे प्रायणीयमतिरात्रमेके आचार्याः” हविर्यज्ञेभ्योऽग्निहोत्रदर्शपूर्णमासचातुर्मास्यपर्वभ्यः परं कुर्वन्तिएवं हि सर्व्वेषां सोमयागानामानन्तर्यमव्यवधानं कृतंभवति इतरथा हविर्वज्ञैर्व्यवधानं स्यात् एके एतन्नवाञ्छन्ति यतः प्रकृतौ प्रायणीयस्याग्नीषोमीयोत्तरकालतादृष्टा इहापि च तद्वदेवानुष्ठानं युक्तम् तस्माद्धविर्यज्ञेभ्यःपूर्व एव प्रायणीयो भवति। अन्येभ्यः सत्रेभ्योऽत्र विशे-षमाह” सं॰ व्या॰।
“अत्सरुकाः कुण्डप्रतिरूपाश्चमसाः” सू॰। [Page2091-b+ 38] अत्सरुकाः अवृन्तका कुण्डप्रतिरूपाः वृत्ताकाराः कर्कः।
“अत्र अत्सरुका अवृन्ता मूलज्ञापकचिह्नदण्डरहिताःकुण्डप्रतिरूपाः कुण्डाकारा वृत्ताश्च भवन्ति” सं॰ व्या॰।
“पञ्च-र्त्विजस्त्रीणि त्रीणि कर्माणि कुर्युः” सू॰।
“अत्र कुण्डपा-यिनामयने वक्ष्यमाणाः पञ्चर्त्विजस्त्रीणित्रीणि कर्म्माणिकुर्वन्ति त्रयाणांत्रयाणामृत्विजां कर्माणि एकैकः करोति” स॰ व्या॰
“होताध्वर्यवपोत्रीये च” सू॰।
“चशब्दाद्धौत्रं च” कर्कः।
“उद्गाता नैष्ट्राच्छावाकीये” सू॰।
“मैत्रावरुणो ब्रह्मत्व-प्रातिहर्त्रे”।
“प्रस्तोता ब्राह्मणाच्छंसिग्रावस्त{??}त्रोये” सू॰।
“सर्वत्र प्रथमान्तः कर्ता” सं॰ व्या॰
“प्रतिप्रस्थाताग्नी-ध्रौन्नेत्रे” सू॰।
“चकारःस र्वत्रानुवर्त्तते” कर्कः।
“मुख्या-सनेभ्योऽनुसंसर्पमितराणि” सू॰।
“आसनशब्दः स्थान-वाची मुख्यस्थानेभ्यः अनु सृप्त्वा--सृप्त्वा परकीयाणिकर्माणि कुर्युः स्वकर्मकर्त्तृकस्य चरितार्थत्वात्” कर्कः।
Vedic Rituals Hindi
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुण्डपायिनामयन न.
एक यज्ञीय सत्र का नाम (सत्र याग), आश्व.श्रौ.सू. 12.4.1; का.श्रौ.सू. 24.4.21 (कुण्डयायि- नामयनम् पौर्णमासीदीक्षम्)। कुण्डुपायिनां सत्त्र न. एक यज्ञीय सत्र का नाम, आप.श्रौ.सू. 23.1०4.
