कुण्डपायिनामयनन्याय
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुण्डपायिनामयनन्याय¦ पु॰ जैमिन्युक्ते कुण्डपायिनामय-ननामकसन्ने ऽग्निहोत्रपदस्य प्रकृताग्निहोत्रात् कर्म्मान्तरत्वप्रतिपादके न्यायभेदे स च न्यायो जै॰ सू॰ दर्शितोयथा
“प्रकरणान्तरे प्रयीजनान्यत्वम्” जै॰ सू॰।
“कुण्डपायिना-मयने श्रूयते--सायम् अग्निहोत्रं जुहोति, मासं दर्श-पूर्णमासाभ्यां यजते” इत्येवमादि। तत्र सन्दिह्यते,--किंनियते अग्निहोत्रे नियतयोश्च दर्शपूर्णमासयोर्मासो वि-धीयते कालः? अथ किं नियताग्निहोत्रात् नियताभ्याञ्चदर्शपूर्णमासाभ्यां कर्मान्तरविधानम्?--इति। किं तावत्प्राप्तं?--नियतेषु कालविधिः इति कुतः? कालविधिस-रूप एष शब्दोमासमिति। कथं कालविधिसरूपता?। यत् अग्निहोत्रंजुहोति--इति विदितं, मासमित्यविदितम्। एवं च अग्निहोत्रशब्दो दर्शपूर्णमासशब्दश्च न अर्थान्तर-वृत्तीभविष्यतः तस्मात् कालविधिः। ननु कुण्डपायिनाम-यनप्रकरणं बाध्येतैवम्’। कामं बाध्यतां, वाक्यं हिबलवत्तरम्। एवं प्राप्ते ब्रूमः,--प्रकरणान्तरे श्रूय-माणं वाक्यं यस्य प्रकरणे तस्य वाचकं भवितुमर्हति। ननु प्रत्यक्षोऽग्निहोत्रस्य दर्शपूर्णमासयोश्च गुण-विधिः। न,--इत्युच्यते। कथम्?। उपसद्भिश्चरित्वेतिह्युक्त्वा इदमभिधीयते, न च, उपसदोऽग्निहोत्रस्य द-र्शपूर्णमासयोश्च सन्ति। तस्मात् अशक्यः तत्र मासविधिः‘ अथ उच्येत,--उपसदोऽपि विधीयन्ते’ --इति। तथागुणबिधानार्थेऽस्मिन् वाक्ये अनेकगुणविधानात् वाक्यम्भिद्येत! अस्मिन् पक्षे पुनरतन्त्रम् अग्निहोत्रशब्दो न[Page2092-a+ 37] कर्म विशेक्ष्यति तेन वाक्यमेदो न भविष्यति। तस्मात्कर्मालरम् इति सिद्धम्” भाव्यम्। तत्त्ववोधिन्यां विवृतमेतत् यथा
“उपसद्भिश्चरित्वा मासमग्निहीत्रं जुहोति दर्शपौर्ण्णमा-साभ्यां मासं यजेतेति” श्रूयते। उपसदश्च ज्योतिष्टोमयागेदीक्षादिवसादूर्द्ध्वं सोमाभिषवदिवसात् पूर्ब्बकर्त्तव्या हो-मविशेषा इति माधवाचार्य्यप्रभृतियाज्ञिकमीमांसकाः तत्-परिपाटी च(डावका) इत्यस्मद्देशप्रसिद्धजलपात्रसदृशाका-रकम्बुग्रीवादिवदनेकरेखाविशिष्टाग्रभागमहावीराख्यपा-त्रबिशेषः तत्संस्थानं यथा तस्मिन् पात्रे यवागूस-हितं दधि कृत्वा संदंशाकारकाष्ठद्वयेन तस्य ग्रीवां धृत्वादक्षिणावर्त्तेन परावृत्य एकवारं तत्र स्थितं प्रतप्तं यवा-गूदधि जुहोति वामावर्त्तेनापरवारमिति वारद्वयहो-मेनैकोपसषद्भवतीति याज्ञिकप्रसिद्धिः। उपसद्भिरि-त्यभेदे तृतीयाश्वमेधेनेत्यादिवत् तथाच उपसद्यागा-चरणं कृत्वेत्यर्थः एतेन
“उपसत्कथ्यते त्वत्र सतिलैर्व्री-हिभिश्चरुरिति मीमांसानभिज्ञस्य कल्पनं निरस्तं मी-मांसासन्निबन्ध्रा केनापि तथानभिधानात्। अत्र
“याव-ज्जीवमग्निहोत्र जुहोतीति” श्रुतिप्राप्ताग्निहोत्रमनूद्यउपसदानन्तर्य्यं माससाध्यत्वञ्चेति गुणद्वयं विधीयते किंवा विशिष्टकर्म्मान्तरमिति संशंये नायं कर्म्मान्तरविधिर्गौरवात् किन्तु कॢप्ताग्निहोत्रे गुणद्वयविधिर्लाघवा-त् नच प्रकरणान्तरपठितत्वेनाग्निहोत्रपदानुकॢप्तस्योप-स्थितिरिति वाच्यम् अग्निहोत्रशब्दस्य तत्रैव शक्तेर्नाना-र्थत्वाभावाच्च प्रकरणान्तरेऽशुम्पस्थितिसम्भवात् न च कथंत्र{??}वाग्निहोत्रपदशक्तिः कौण्डपायिनामयनेऽपि तच्छक्तिसम्भवादि ते वाच्यं
“यावज्जीवमग्निहोत्रं जुहोतीति” श्रुत्युक्ताग्निहोत्रस्य
“यदग्नये च प्रजापतये च सायंप्रातर्जुहोतीति” श्रत्या देवताकाङ्क्षानिरासेनाग्निहोत्रपदस्ययागनामपरत्वेन तत्र रूढत्यात् इह तु देवताकाङ्क्षानि-रासार्थम् अग्नेर्हीत्रमिति व्युत्पत्तिकल्पनेनाग्निदेवताकत्वरूपोपाधिहोत्रगुणयोगाद्गौणत्वस्वापि ज्ञापितत्वात्नानाशक्तिकल्पने गौरवादिति प्राप्रे उच्यते प्राप्ते क-र्म्मणि गुणद्वयविधाने वाक्यभेदापत्तेः तथाहि किं मा-स एव विधीयते उतौपसद्भिश्चरित्वेति उपसदपि, नाद्यःनित्याग्निहोत्रे उपसदोऽसत्त्वेन तस्यापि विधातव्यत्वा-दित्युभयगुणविधौ वाक्यभेदापत्तेः प्रधानानुवादेन गुण-[Page2092-b+ 37] पकारकाङ्गतया एकगुणविधानेनाकाङ्क्षानिवृत्तौविधेयान्तरं प्रति आकाङ्क्षामुत्थाय्य वाक्यान्तरकल्पनेना-ग्निहोत्रं मासं कुर्य्यान् अग्निहोत्रमुपसदनन्तरं कुर्य्या-दिति विधिद्वये पर्य्यवसानात् अपूर्ब्बद्वयं विधेयं स्यात् तत्रप्रत्येकगुणानुष्ठाने प्रत्येकमपूर्ब्बमित्यपूर्ब्बद्वयं मिलितानुष्ठा-ने च प्रत्येकजन्यापूर्व्वद्वयम् उभाभ्यां विलक्षणमपूर्व्वंवा जन्यत इति गौरवं विशिष्टैककर्म्मविधाने गुणानांप्रधानस्वरूपनिर्ब्बाहकाङ्गतया साङ्गप्रधानजन्यमेकमेवा-पूर्ब्बंविधेयं स्वादित्यपूर्बैक्यादेकविधिः। अतएवोक्तं
“प्राप्तेकर्म्मणि नानेकोविधातुं शक्यते गुणः। अप्रा-प्ते तु विधीयन्ते बहवोऽप्येकयत्नतः”। विध्यन्तरप्राप्तेप्रधाने अनेकगुणोविधातुं न शक्यते वाक्यभेदापत्ते-रिति शेषः अप्राप्ते तु प्रधाने बहवोऽपि गुणा एक-यत्नत एकवाक्यात् विधीयन्ते नानागुणविशिष्टैकप्रधा-नविधिसम्भवेनापूर्बैक्यादित्यर्थः। नचैकगुणविविष्टापर-गुणोविधेयः यथाग्निहोत्रमुपसदनन्तरंमासंकुर्य्यादितिन वाक्यभेद इति वाच्यम् गुणानां परस्परं विशेषण-विशिष्यभावेनान्वयवोधे निराकाङ्क्षत्वात् तथाच जैमिनि-सूत्रं
“गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात्”। गुणा-नां विशेषणानां अङ्गानाञ्च परस्परमसम्भन्धः विशेष्यवि-शेषणभावेन नान्वयः परार्थत्वात् द्वयोरपि विशेष्यान्वयि-त्वात् तथासत्येव कथं नान्वयस्तत्राह समत्वात् द्वयोरे-व परसाकाङ्क्षतया तुल्यरूपत्वात् न परस्परं गुणप्रधा-नभावः। यत्तु परस्परवैशिष्ट्येन गुणद्वयैकविधित्वे वि-निगमकाभावादुभयोरपि विशेष्यत्वेन विशेषणत्वेन चविधेयत्वेन वाक्यभेदे इति, तन्न विनिगमकाभावेन वाक्य-स्य द्वैविध्येऽपि नापूर्ब्बभेदकल्पना किन्तु कारणतावच्छे-दकभेदेन कारणभेदमात्रम् अन्यथा ईदृशवाक्यभेदस्य वि-शिष्टैकप्रधानविधिपक्षेऽपि सम्भवात्। किमुपसदानन्त-र्य्यविशिष्टे माससाध्यत्ववैशिष्ट्यं माससाध्यत्वविशिष्टे वाउपसदानन्तर्यवैशिष्ट्यमिति विनिगमकाभावात्। नचैकत्र द्व-यमिति न्यायेन विशेष्ये युगप द्विशेषणद्वयमिति वाच्यं वेदेविशिष्टवैशिष्ट्यबोधस्यौत्सर्गिकत्वात्। किञ्च विशेष्यविशेषणभावस्य द्वैविध्येऽपि बिशिष्टस्यानतिरिक्ततया कारणैक्यात्कार्य्यैक्याच्च न कार्य्यकारणभावमैदोऽपि एकाङ्गापूर्वं प्र-त्येव परस्परसापेक्षतया उभयोर्हेतुत्वादिति वाक्यार्थैक्या-न्नोक्तिभेदरूपवाक्यभेदोदोषाय कारणतावच्छेदकगौर-[Page2093-a+ 38] तथाचैतादृशलाघववृंहितकौण्डपायिनामयनप्रकरणपाठएव कर्म्मा तरत्वे प्रमाणं तथाच सिद्धान्तसूत्रम्
“प्रकर-णान्यत्वे प्रयोजनान्यत्वमिति” अतएव प्रकरणाद्वाक्यस्यबलीयस्त्वात् शक्त्या नित्याग्निहोत्रस्योपस्थित्या गुणवि-धिरित्यपि निरस्तं तस्योक्तगौरवपराहतत्वात्। एवञ्चगौण्याग्निहोत्रपदप्रयोगस्तद्धर्म्मातिदेशार्थः अतएव
“देवश्राद्धादौ श्राद्धशब्दोगौणस्तद्धर्म्मप्राप्त्यर्थः कौण्ड-पायिनामयन इवाग्निहोत्रशब्द इति” श्राद्धविवेकः।
