कुण्डम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुण्डम्, क्ली, (कुणतीति । “ञमन्तात् डः” । उणां १ । ११३ । इति डः ।) मानभेदः । (कुण्ड्यते रक्ष्यते जलं यत्र । कुडि + अधिकरणे अप् ।) देवजलाशयः । इति मेदिनी ॥ जलाधारविशेषः । चौवाच्चा इति भाषा ॥ तज्जलगुणाः । अग्निकफकारित्वम् । रूक्षत्वम् । मधुरत्वम् । लघुत्वञ्च । इति राजनिर्घण्टः ॥ कफा- जनकत्वम् । इति राजवल्लभः ॥ * ॥ (पात्रविशेषः । यथा, रघौ १ । ८४ । “भुवं कोष्णेण कुण्डोध्नी मेध्येनावभृतादपि” ॥) न्यसेत् परिधिमन्यश्चेदुदगग्रः स पूर्ब्बतः” ॥
कुण्डम्, क्ली स्त्री, (कुण्ड्यते रक्ष्यते मक्ष्यादि अस्मिन् । कुडि रक्षणे + अच् ।) स्थाली । इत्यमरभरतौ ।
