कुण्डलम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुण्डलम्, क्ली, (कुण्ड्यते रक्ष्यते इति कुडि रक्षायां + वृषादित्वात् कलच् । यद्वा कुण्डं तदाकारं लाति गृह्णातीति । ला + कः ।) स्वनामख्यात- कर्णभूषणम् । (यथा विष्णुध्याने । “ध्येयः सदा सवितृमण्डलमध्यवर्त्ती नारायणः सरसिजासनसन्निविष्टः केयूरवान् कनककुण्डलवान् किरीटी” ॥) तत्पर्य्यायः । कर्णवेष्टनम् २ । इत्यमरः । २ । ६ । १०३ । पाशः । वलयः । इति मेदिनी ॥ (पुं, कौरव्यकुलज- सर्पविशेषः । यथा महाभारते १ । ५७ । १३ । “एरकः कुण्डलो वेणी वेणीस्कन्धः कुमारकः । बाहुकः शृङ्गवेरश्च धूर्त्तकः प्रातरातकौ । कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम्” ॥ पुंलिङ्गे ऽस्य रक्तकाञ्चनवाचकता उक्ता । यथा, वैद्यकरत्नमालायाम् । “रक्तपुष्पः कोविदारो युग्मपत्रस्तु कुण्डलः” ॥)
