कुण्डली
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुण्डली, स्त्री, (कुण्डल + जातौ ङीष् ।) मिष्टान्न- विशेषः । जिलिपी इति भाषा । इति पाकराजे- श्वरः ॥ * ॥ कुलकुण्डलिनी शक्तिः । यथा, -- “त्रिकोणं तत्तु विज्ञेयं शक्तिपीठं मनोहरम् । तद्गह्वरे कामवायुर्जीवरूपोऽतिचञ्चलः ॥ अधोमुखस्तत्र लिङ्गः स्वयम्भुस्तेन चाल्यते ॥ नीवारशूकवत्तन्वी कुण्डली परदेवता ॥ शङ्खतुल्यनिभा देवी सार्द्धत्रिवलयान्विता । मुखेनाच्छाद्य ब्रह्मास्यं तया संवेष्टितः प्रभुः ॥ डाकिनी ह्यत्र वसति द्वारपाली सयष्टिका । यः साधकोऽत्र रमते स दिव्यो नैव मानुषः” ॥ इति सम्भोहनतन्त्रम् ॥ (अस्याः पर्य्याया यथा, हठयोगदीपिकायाम् । ३ । १०४ ॥ कुटिलाङ्गी २ कुण्डलिनी ३ भुजङ्गी ४ शक्तिः ५ ईश्वरी ६ अरु- न्धती ७ ॥) गुडूची । काञ्चनवृक्षः । इति मेदिनी । (अस्याः पर्य्याया यथा, -- “कोविदारश्चमरिकः कुद्दालो युगपत्रकः । कुण्डलीताम्रपुष्पश्च स्मन्तकः स्वल्पकेशरी” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥) कपिकच्छुः । सर्पिणीवृक्षः । इति राजनिर्घण्टः ॥
कुण्डली, [न्] पुं, (कुण्डलं अस्त्यस्य इति इनिः । कुण्डलाकारेण स्थितेरस्य तथात्वम् ।) सर्पः । इत्य- मरः । १ । ८ । ७ ॥ वरुणः । (कुण्डलं कुण्डलवदा- कारं शरीरे अस्त्यस्य ।) मयूरः । इति मेदिनी ॥ चित्तलमृगः । इत्यजयपालः । (विष्णुः । यथा, महाभारते १३ । १४९ । ११० । “अरौद्रः कुण्डली चक्री विक्रम्यूर्ज्जितशासनः” ॥) कुण्डलयुक्ते, त्रि । इति मेदिनी । (यथा गोः रामा- यणे । ३ । ९ । ११ । “इमे च पुरुषा दिव्या यान्त्यस्य रथमन्तिकात् । परं शुभाः कुण्डलिनो युवानः खङ्गपाणयः” ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुण्डली [kuṇḍalī] कुण्डलिका [kuṇḍalikā], कुण्डलिका A kind of sweetmeat (Mar. जिलेबी.)
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुण्डली f. a kind of drum (perhaps कुण्डलीnom. sg. fr. लिन्, m. )
कुण्डली ind. for ल.
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
KUṆḌALĪ I : One of the children of Garuḍa. (Udyoga Parva, Chapter 101, Verse 9).
_______________________________
*10th word in right half of page 441 (+offset) in original book.
KUṆḌALĪ II : A river the water of which was drunk by the Indians. (Bhīṣma Parva, Chapter 9, Verse 21).
_______________________________
*11th word in right half of page 441 (+offset) in original book.
KUṆḌALĪ III : A son of Dhṛtarāṣṭra, also kuown as Kuṇḍāśī. He was killed by Bhīma. (Bhīṣma. Parva, Chapter 96, Verse 24).
_______________________________
*12th word in right half of page 441 (+offset) in original book.
KUṆḌALĪ IV : A synonym of Śrī Kṛṣṇa. (Anuśāsana Parva, Chapter 149, Verse 110).
_______________________________
*13th word in right half of page 441 (+offset) in original book.
