सामग्री पर जाएँ

कुण्डाशिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुण्डाशी, [न्] त्रि, (कुण्डं योनिकुण्डं तदुप- लक्षीकृत्य अश्नाति जीवनयात्रां यापयतीति । कुण्ड + अश् + णिनिः ।) भगभक्षकः । कोट्ना इति भाषा । इति महाभारते दानधर्म्मः । (कुण्ड- स्य जारजातस्य अन्नं अश्नातीति ।) कुण्डान्नभोजी । तस्य नरको यथा, -- “रङ्गोपजीवी कैवर्त्तः कुण्डाशी गरदस्तथा । सूची माहिषकश्चैव पर्व्वकारी च यो द्विजः ॥ आगारदाही मित्रघ्नः शाकुनिर्ग्रामयाजकः । रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये” ॥ इति विष्णुपुराणे । २ । ६ । २०, २१ ॥ “रङ्गो- पजीवी नटमल्लादिवृत्तिः । कैवर्त्तः धीवरवृत्तिः पत्यौ जीवति जाराज्जातः कुण्डः तदन्नभोजी कुण्डाशी । सूची पिशुनः । माहिषो महिषोप- जीवी । यद्वा । ‘महिषीत्युच्यते भार्य्याभगेनोपार्ज्जितं धनम् । उपजीवति यस्तस्याः स वै माहिषकः स्मृतः’ ॥ इति स्मृतिप्रोक्तः । पव्वकारी धनादिलोभेना- पर्व्वसु अमावस्यादिक्रियाप्रवर्त्तकः । पर्व्वगामीति पाठे पर्व्वसु स्त्रीगामी । शाकुनिः पक्षिजीवी । शुभनिमित्तशकुनोपजीवी वा । ग्रामयाजकः ग्रा- मार्थे यज्वा” । इति तट्टीकायां श्रीधरस्वामी ॥ (धृतराष्ट्रपुत्त्रः । यथा महामारते । १ । ११७ । १३ । “कुण्डाशी विरजाश्चैव दुःशला च शताधिका” ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुण्डाशिन्¦ पु॰ धृतराष्ट्रनृपपुत्रभेदे।
“कुण्डाशी विरजाश्चैवदुःशला च शताधिका” भा॰ आ॰

११

७ अ॰।
“अमृ-ते जारजः कुण्डोमृते भर्त्तरि गोलकः। यस्तयोरन्नमश्नाति स कुण्डाशीति कय्यते” देवलोक्ते

२ कुण्डगोलकयोरन्नभक्षके त्रि॰ स्त्रियां ङीप्
“अगारदाही गरदःकुण्डाशी सोमविक्रयी” मनुः
“अव्रती वृपलीभर्{??}कुण्डाशी सोमविक्रयी” भा॰ आनु॰

१४

३ अ॰

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुण्डाशिन्¦ m. (-शी)
1. A pander, a pimp.
2. One who is supported by a bastard. E. कुण्ड, अश् to eat, and इनि aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुण्डाशिन्/ कुण्डा mfn. one who is supported by an adulterine , Gaut. Mn. iii , 158 Ya1jn5. i , 224 MBh. xiii

कुण्डाशिन्/ कुण्डा m. a pander L.

कुण्डाशिन्/ कुण्डा m. N. of a demon causing fever Hariv. 9563

कुण्डाशिन्/ कुण्डा m. of a son of धृत-राष्ट्रMBh. i , 4553.

"https://sa.wiktionary.org/w/index.php?title=कुण्डाशिन्&oldid=280149" इत्यस्माद् प्रतिप्राप्तम्