सामग्री पर जाएँ

कुतपः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुतपः, पुं क्ली, अह्नोऽष्टमोऽंशः । दिवसस्याष्टमो मूहूर्त्तः । यथा, -- “अह्नो मुहूर्त्ता विख्याता दश पञ्च च सर्व्वदा । तत्राष्टमो मुहूर्त्तो यः स कालः कुतपः स्मृतः” ॥ इति श्राद्ध्वतत्त्वे मत्स्यपुराणवचनम् ॥ * ॥ पारि- भाषिककुतपा यथा, -- “मध्याह्नः खङ्गपात्रञ्च तथा नेपालकम्बलः । रौप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः ॥ पापं कुत्सितमित्याहुस्तस्य सन्तापकारिणः । अष्टावेते यतस्तस्मात् कुतपा इति विश्रुताः” ॥ इति मिताक्षरायामाचाराध्यायः ॥ स च त्रिंश- द्दण्डदिनमाने द्वितीहप्रहरशेषदण्डावधि तृतीय- प्रहरप्रथमदण्डपर्य्यन्तकालः । इत्यमरः । २ । ७ । ३१ ॥ स तु एकोद्दिष्टश्राद्धारम्भकालः । यथा, -- “आरभ्य कुतपे श्राद्धं कुर्य्यादारौहिणं बुधः । विधिज्ञो विधिमास्थाय रौहिणन्तु न लङ्घयेत्” ॥ इति श्राद्धतत्त्वम् ॥ “दिवसस्याष्टमे भागे मन्दीमवति भास्करः । स कालः कुतपो ज्ञेयः पितॄणामन्नमक्षयम्” ॥ इति शातातपः ॥ * ॥ दौहित्रः । वाद्यम् । छाग- लोमजकम्बलम् । कुशतृणम् । इति मेदिनी ॥

कुतपः, पुं, (कुत्सितं पापं तपति कुं भूमिं तपति वा । तप + अच् । कुत् + कपन् वा ।) सूर्य्यः । वैश्वा- नरः । द्विजन्मा । अतिथिः । गौः । भागिनेयः । इति हेमचन्द्रः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुतपः [kutapḥ], 1 A Brāhmaṇa.

A twice-born man (द्विजन्मन्).

The sun.

Fire

A guest.

An ox, a bull.

A daughter's son.

A sister's son.

Grain.

The eighth Muhūrta of the day; Mb.13.126.36; cf. अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा । तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥

A musical instrument.

A time suitable for the performance of sacrifices to the manes.

पम् The Kuśa grass.-Comp. -अष्टकम् eight कुतपs namely, मध्याह्न, शृङ्गपात्र, ऊर्णावस्त्र, रौप्य, दर्भ, वत्स, धेनु, दौहित्र. -सप्तकम् seven things to be given in honour of the dead at the श्राद्ध ceremony, namely, शृङ्गपात्र, ऊर्णावस्त्र, रौप्यधातु, कुशतृण, सवत्सा धेनुः, अपराह्णकाल, कृष्णतिल.

"https://sa.wiktionary.org/w/index.php?title=कुतपः&oldid=280236" इत्यस्माद् प्रतिप्राप्तम्