सामग्री पर जाएँ

कुतूणकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुतूणकः, पुं, (कु ईषत् तूणयति सङ्कोचयति चक्षुः यः । कु + तूण सङ्कोचे + ण्वुल् ।) बालरोगविशेषः । स तु नेत्ररोगः । कतुया इति भाषा । तस्य लक्ष- णम् ॥ “कुतूणकः क्षीरदोषाच्छिशूनामेव वर्त्मनि । जायते तेन तन्नेत्रं कण्डूरञ्च स्रवेन्मुहुः ॥ शिशुः कुर्य्याल्ललाटाक्षिकूटनासावघर्षणम् । शक्तो नार्कप्रभां द्रष्टुं न वर्त्मोन्मीलनक्षमः” ॥ इति माधवकरः ॥ कुकूणक इत्यपि पाटः ॥ (यथा, -- “कुकूणकः शिशोरेव दन्तोत्पत्तिनिमित्तजः ॥ स्यात्तेन शिशुरुच्छूनताम्राक्षो वीक्षणाक्षमः । स वर्त्मशूलपैच्छिल्यकर्णनासाक्षिमर्द्दनः” ॥ इत्युत्तरतन्त्रे ८ अध्याये वाभटेनोक्तम् ॥ * ॥ चिकित्सा यथा ॥ “शुण्ठी भृङ्गनिशाकल्कः पुटपाकः ससैन्धवः । कुकूणकेऽक्षिरोगेषु भद्रमाश्च्योतनं हितम् ॥ क्रिमिघ्नालशिलादार्व्वी लाक्षाकाञ्जिकगैरिकैः । चूर्णाञ्जनं कुकूणे स्याच्छिशूनां पोथकीषु च । सुदर्शनामूलचूर्णादञ्जनं स्यात् कुकूणके” ॥ इति वैद्यकचक्रपाणिसंग्रहे बालरोगाधिकारे ॥)

"https://sa.wiktionary.org/w/index.php?title=कुतूणकः&oldid=127361" इत्यस्माद् प्रतिप्राप्तम्