कुतूहलम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुतूहलम्, क्ली, (कुतूं चर्म्ममयतैलादिपात्रबत् अन्त- र्हलति सोत्सुकं करोति । हल् + अच् ।) अपूर्ब्ब- बस्तुदिदृक्षाद्यतिशयः । तत्पर्य्यायः । कौतूहलम् २ कौतुकः ३ कुतुकम् ४ । इत्यमरः । १ । ७ । ३१ ॥ चित्रम् ५ । इति शब्दरत्नावली । (यथा, नैषधे । १ । ११९ । “प्रियावियोगाद्विधुरोऽपि निभर कुतूहलाक्रान्तमना मनागभूत्” ॥ नायकालङ्कारविशेषः । तल्लक्षणं यथा साहित्य- दर्पणे । ३ । ११९ । “रम्यवस्तुसमालोके लोलता स्यात्कुतूहलम्” ॥)
