सामग्री पर जाएँ

कुथः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुथः, पुं स्त्री, (कुन्थति अशोभां क्लेशं वा । कुथ इ हिंसायां अच् । आगमविधेरनित्यत्वात् न नुमा- गमः ।) गजपृष्टस्थितचित्रकम्बलम् । हातिर पिठेर झुल् इति भाषा । तत्पर्य्यायः । प्रवेणी २ आस्तरणम् ३ वर्णः ४ परिस्तोमः ५ । इत्थमरः । २ । ८ । ४२ ॥ प्रवेणिः ६ परिष्टोमः ७ कुथा ८ कुथम् ९ । इति तट्टीका ॥ वोलः १० आस्तरः ११ । इति शब्दरत्नावली ॥ (यथा शब्दर्थचिन्तामणौ । “कुथा कन्या समाख्याता कुथः स्यात् करिकम्बलम् । कुथः कुशः कुथः कीटः प्रातःस्नायी द्विजः कुथः” ॥ यथा महाभारते २ । ५१ । ३६ । “शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन्” ॥)

कुथः, पुं, (कुथ + अच् ।) कुशतृणम् । इत्यमरः । २ । ४ । १६६ ॥ (यथा हेः रामायणे । २ । ३० । १४ । “शाद्बलेषु यदा शिश्ये वनान्ते वनगोचरा । कुथास्तरणतल्पेषु किं स्यात् सुखतरं ततः” ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुथः [kuthḥ], The Kuśa grass. अथ स वल्क-दुकूल-कुथादिभिः Bk.1.

कुथः [kuthḥ] थम् [tham] था [thā], थम् था 1 A painted cloth serving as an elephant's housings (Mar. झूल); उत्सृष्टध्वजकुथकङ्कटा धरित्रीमानीता विदितनयैः श्रमं विनेतुम् K.7.3.

A carpet (in general); महत्या कुथयास्तीर्णां पृथिवीलक्षणाङ्कया Rām. 5.9.25.

"https://sa.wiktionary.org/w/index.php?title=कुथः&oldid=280425" इत्यस्माद् प्रतिप्राप्तम्