सामग्री पर जाएँ

कुथोदरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुथोदरी, स्त्री, (कुथं हिंसात्मकमुदरं यस्याः सा ।) निकुम्भदुहिता । कुम्भकर्णपौत्त्री । सा च कल्कि देवेन हता । यथा । मुनय ऊचुः । “शृणु विष्णुयशःपुत्त्र ! कुम्भकर्णात्मजात्मजा । कुथोदरीति विख्याता गगनार्द्धसमुत्थिता ॥ कीलकञ्जस्य महिषी विकञ्जजननी च सा । हिमालये शिरः कृत्वा पादौ च निषधाचले ॥ शेते स्तनं पाययन्ती विकञ्जं प्रस्नुतस्तनी । तस्या निश्वासवातेन विवशा वयमागताः ॥ दैवेनैव समानीताः प्राप्तास्तव पदाम्बुजम् । मुनयो रक्षणीयास्ते रक्षःसु च विपत्सु च ॥ इति तेषां वचः श्रुत्वा कल्किः परपुरञ्जयः । सेनागणैः परिवृतो जगाम हिमवद्गिरिम्” ॥ इत्यादि ॥ “सा क्रुधोत्थाय सहसा ननर्द्द परमाद्भुतम् । तेन नादेन महाता वित्रस्तांश्चाभवन् जनाः । निपेतुः सैनिकाः सर्व्वे मूर्च्छिता धरणीतले ॥ सा रथांश्च गजांश्चापि विवृतास्या भयानका । जघास प्रश्वासवातैः समानीय कुथोदरी ॥ सेनागणास्तदुदरं प्रविष्टाः कल्किना सह । यथर्क्षमुखवातेन प्रविशन्ति पिपीलिकाः ॥ तद्दृष्ट्वा देवगन्धर्व्वा हाहाकारं प्रचक्रिरे । तत्रस्था मुनयः शेपुर्जेपुश्चान्ये महर्षयः ॥ निपेतुरन्ये दुःखार्त्ता ब्राह्मणा ब्रह्मवादिनः । रुरुदुः पृष्ठयोधा ये जहृषुस्तन्निशाचराः ॥ जगतां कदनं दृष्ट्वा सस्मारात्मानमात्मना । कल्किः कमलपत्राक्षः सुरारातिनिसूदनः ॥ वाणाग्निं चेलचर्म्मभ्यां कम्बलैर्यानदारुभिः । प्रज्वाल्योदरमध्येन् करवालं समाददे ॥ तेन खङ्गेन महता कुक्षिं निर्भिद्य बन्धुभिः । बलिभिर्भ्रातृभिर्व्वाहैर्वृतः शस्त्रास्त्रपाणिभिः ॥ वहिर्ब्बभूव सर्व्वेशः कल्किः कल्कविनाशनः । सहस्राक्षों यथा वृत्रकुक्षिं दम्भोलिनेमिना ॥ योनिरन्ध्राद्गजरथास्तुरगाश्चाभवन् वहिः । नासिकाकर्णविवरात् केऽपि तस्या विनिर्गताः ॥ ते निर्गतास्ततस्तस्याः सैनिकारुधिरोक्षिताः । तां विव्यधुर्निःक्षिपन्तीं तरसा चरणौ करौ ॥ ममार सा भिन्नदेहा भिन्नकुक्षिशिरोधरा । नादयन्ती दिशो द्यां खं चूर्णयन्ती च पर्व्वतान्” । इति कल्किपुराणे १६ अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुथोदरी¦ स्त्री कुम्भकर्ण्णपौत्र्यां निकुम्भदुहितरि। सा चकल्किना हता यथाह कल्किपु॰

१६ अ॰(
“मुनय ऊचुः। शृणु विष्णुयशःपुत्र! कुम्भकर्णात्म-जात्मजा। कुथोदरीति विख्याता गगनार्द्धसमुत्थिता॥ कीलकञ्जस्य महिषी निकञ्जजननी च सा। हिमाल-ये शिरः कृत्वा पादौ च निषधाचले॥ शेते स्तनं पाय-यन्ती निकञ्जं प्रस्नुतस्तनी। तस्या निश्वासवातेन विवशावयमागताः॥ दैवेनैव समानीताः प्राप्तास्तव पदा-म्बुजम्। मुनयो रक्षणीयास्ते रक्षःसु च विपत्सुच॥ इति तेषां वचः श्रुत्वा कल्किः परपुरञ्जयः। मेनागणैः परिवृतो जगाम हिमवद्गिरिम्”। इत्युपक्रम्य तया सह युद्धे ससैन्यकल्केस्तदुदरवेशमुप-वर्ण्य्य
“कल्किः कमलपत्राक्षः सुरारातिनिसूदनः। वा-णाग्निचेलचर्म्मभ्यां कम्बलैर्यानदारुभिः। प्रज्वाल्योदर-मध्येन करवालं समाददे॥ तेन खड्गेन महताकुक्षिं निर्भिद्य बन्धुभिः। बलिभिर्भ्राष्टभिर्व्वाहैर्वॄतःशस्त्रास्त्रपाणिभिः। वहिर्व्वभूव सर्व्वेशः कलिकःकल्कविनाशनः। सहस्राक्षो यथा वृत्तकुक्षिं दम्भोलि-नेमिना॥ योनिरन्ध्राद्गजरथास्तुरगाश्चाभवत् बहिः। नासिकाकर्णविवरात् केऽपि तस्या विनिर्गताः। ते निर्गतास्ततस्तस्याः सैनिका रुधिरोक्षिताः। तां विव्यधुर्निः-[Page2096-b+ 38] क्षिपन्तीं तरसा चरणौ करौ॥ ममार सा भिन्नदेहाभिन्नकुक्षिशिरोधरा”।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुथोदरी/ कुथो f. N. of a daughter of निकुम्भKalkiP.

"https://sa.wiktionary.org/w/index.php?title=कुथोदरी&oldid=280446" इत्यस्माद् प्रतिप्राप्तम्