कुदिन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुदिन¦ न॰ कोः पृथिव्याः भ्रमणेन दिनम्।
१ सावनदिने। तदुक्तं सू॰ सि॰।
“ओदयादोदयं भानोः सावनं तत्प्रकीर्त्तितम्। सावनानि स्युरेतेन यज्ञकालविधिस्तु तैः”
“सूर्य्यस्योदयादुदयकालमारभ्याव्यवहितोदयकालपर्यन्तं यत्कालात्मकं तत् सावनं मानज्ञैरुक्तम्। एतेनोदयद्बया-न्तरात्मककालस्य गणनया सावनानि वसुद्व्यष्टाद्रीत्या-दिना मध्यमाधिकारोक्तानि भवन्ति। तद्व्यवहारमाह। यज्ञकालविधिरिति यज्ञस्य यः कालस्तस्य गणना तैःसावनैः। तुकारोऽन्यमाननिरासार्थकैवकारपरः” रङ्गना॰। निरुपपदसावनदिनस्य सूर्य्यसंवन्धिसावनदिनपरत्वं युगेतत्संख्या च तत्रैव दर्शिता यथा
“ओदयादोदयं भानोर्भूमिसावनवासराः”॥
“ननु भोदया भगणैरित्यादिना पूर्बं सर्वेषां सावनदि-वसा उक्ता इत्यत्र कस्य ग्राह्या इत्यतः सूर्य्यसावनस्व-रूपकथनच्छलेनोत्तरमाह। ओदयादिति। सूर्य्यस्योदय-कालमारभ्याव्यवहिततदुदयकालपर्यन्तं यः कालः सएको दिवसः। इति ये दिवसास्ते भूमिसावनवासराः। भूदिवसा उदयस्य भूसम्बन्धेनावगमात् सावनदिवसा-श्चेत्यर्थः। तथा च निरुपपदसावनभूमिशब्दाभ्यांसूर्य्यस्य वासरा एव नान्येषां सोपपदत्वाभावादितिभावः” रङ्गना॰। ते कियन्त इत्यतस्तत्प्रमाणमाह
“वसुद्व्यष्टाद्रिरूपाङ्क सप्ताद्रितिथयोयुगे” सू॰ सि॰।
“अष्टाश्विगजसप्तभूगोनगसप्तपञ्चभूमिता
१५
७७
९१
७८
२८ युगे सूर्य्यसावनदिवसाः” रङ्गना॰। सि॰ शि॰ अन्यथोक्तं यथा
“भूदिनानि शरवेदभूपगोसप्तसप्ततिथयोऽयुताहताः
१५ -
७७
९१
९४
५०
००
० । भभ्रमास्तु भगणैर्विवर्जिता यस्यतस्य कुदिनानि तानि वा” सि॰ शि॰।
“एषामुपपत्तिः प्रागेवोक्ता। एकस्मिन् रविवर्षे यावन्तोभभ्रमाः स्युस्तावन्त एवैकोना रविसावनदिवसा भवन्ति। यतो रविः प्राग्गत्या एकं पर्यायं गतः। अतो भगणसंख्ययोना भभ्रमाः क्वहा भवन्ति। एवमन्येषामपि ग्र-हाणां कुदिनानि स्युरित्युपपन्नम्” प्रमि॰।
“इनोदयद्वयान्तरं तदर्कसावनं दिनम्। तदेव मेदिनी-[Page2097-a+ 38] दिनं भवासरस्तु भभ्रमः” इति सिद्धान्तशिरोमणिः।
“इनोदयद्वयान्तरमिति। अर्कोदययोरन्तरं यत् तदर्कसा-वनं दिनम्। तदेव कुटिनसंज्ञं ज्ञेयम्। अतोऽपिपूर्ववन्मासवर्षादिकल्पना। अत्रार्कग्रहणमुपलक्षण तेना-न्येषामपि ग्रहाणां तदुदयद्वयान्तरं तत्सावनमिति” प्रमि॰। ( तद्दिवसस्य कार्य्यविशेषे आदर्त्तव्यतामाह सू॰ सि॰-
“सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा। मध्यमाग्रहभुक्तिस्तु सावनेनैव गृह्यते”।
“सूतकं जन्ममरणसम्बन्धि। आदिपदग्राह्यं चिकित्सि-तचान्द्रायणादि तस्य परिच्छेदो निर्णयः। दिना-घिपमासेश्वरवर्षेश्वराः। तथा--समुच्चये। ग्रहाणां गति-र्मध्यमा। तुकारात् स्फुटगतेर्निरासः तस्याः प्रति-क्षणं वैलक्षण्याद्दिनसम्बन्धस्याभावात्। एतेन स्पष्टगत्यास्पष्टग्रहस्य चालनं निरस्तं स्थूलत्वादिति सूचितम्। सावनमानेन। एवकारादन्यमाननिरासः” प्रमि॰।
“प्रायश्चित्तं सूतकाद्यं चिकित्सा यज्ञाद्येवं कर्म वा-रादिकं च। शास्त्रे त्वस्मिन् खेचराणां च चारा वि-ज्ञातव्याः सावनात् भास्करीयात्” श्रीपतिः॥ कुवासरभूमिदिनादयोऽप्यत्र।
२ ज्योतिषनिषिद्धे दिने च
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुदिन/ कु--दिन n. an evil day
कुदिन/ कु--दिन n. a rainy day.
कुदिन/ कु--दिन n. (= क्षिति-द्)a civil day A1ryabh.
कुदिन/ कु-दिन See. 2. कु.
