कुद्दालः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुद्दालः, पुं, (कुं भूमिं दालयति । कु + दल् + णिच् + अण् । पृषोदरात् द्वित्वे साधुः ।) कोविदार- वृक्षः । इत्यमरः । २ । ४ । २२ ॥ (यथास्य पर्य्यायाः । “कोविदारश्चमरिकः कुद्दालो युगपत्रकः । कुण्डलीताम्रपुष्पश्च स्मन्तकः स्वल्पकेशरी” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥ गुणा- श्चास्य काञ्चनारशब्दे उक्ताः ॥) भूमिदारणास्त्रम् । इति मेदिनी ॥ कोदाल इति भाषा । (यथा महाभारते । ३ । १०७ । २३ । “समासाद्य विलं तच्चाप्यखनन् सगरात्मजाः । कुद्दालैर्ह्रेषुकैश्चैव समुद्रं यत्नमास्थिताः” ॥)
