कुनाशकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुनाशकः, पुं, (ईषत् नाशयति स्पर्शनेन । कु + नश + णिच् + ण्वुल् ।) यवासः । इत्यमरः । २ । ४ । ९१ ॥ (दुरालभा । आल्कुशीति भाषा ॥ अस्य पर्य्याया यथा ॥ “यासोपवासो दुष्पर्शो धन्वयासः कुनाशकः । दुरालभादुरालम्भा समुद्रान्ता च रोदिनी ॥ गान्धारी कच्छुरानन्ता कषाया हरविग्रहा” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे १ म भागे ॥)
