कुन्च
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुन्च वक्रणे । तौच्छ्ये । इति कविकल्पद्रुमः ॥ (भ्वां- परं-अकं-सकं-सेट् ।) पञ्चमस्वरी । वक्रणमिति वक्र इवाचरतीति क्वौ वक्रं करोतीति ञौ च रूपम् । तेन कुटिलीभावः कुटिलीकरणञ्च । तौच्छ्यमल्पी- भावः अल्पोकरणञ्च । कुञ्चति खलः कुटिलोऽल्पो बा स्यादित्यर्थः । कुञ्चति लतां वायुः कुटिलामल्पां वा करोतीत्यर्थः । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुन्च¦ वक्रणे अनादरे च भ्वा॰ पर॰ सक॰ सेट्। कुञ्चति अकु-ञ्चीत् चुकुञ्च चुकुच(ञ्च)तुः। कुञ्चनम् आ + सङ्कोचने आ-कुञ्चति मंकोचयति। वि प्रसारणे। विकुञ्चति प्रसा-रयति सङ्कुचितः णिच् आकुञ्चितः
“आकुञ्चितसव्य-पादम्” भट्टिः।
