सामग्री पर जाएँ

कुन्तीतनय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुन्तीतनय¦ पु॰

६ त॰। कुन्त्यां धर्म्मादितो जातेषु

३ युधि-[Page2100-b+ 38] ष्ठिरादिषु त्रिषु सूर्य्या जाते

४ कर्ण्णे च। तत्कथा यथा
“यस्यां (कुन्त्याम्) स धर्म्मविद्राजा धर्म्माज्जज्ञे युधि-ष्ठिरः। भीमसेनस्तथा वातादिन्द्राच्चापि धनञ्जयः” हरिवं॰

३५ अ॰। कर्ण्णोत्पत्तिकथा भा॰ आ॰

११

१ अ॰ यथा
“शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत्। तस्य कन्यापृथा नाम रूपेणाप्रतिमा भुवि। पितृस्वस्रीयाय सुता-मनपत्याय भारत!। अग्र्यमग्रे प्रतिज्ञाय खस्यापत्यं ससत्यवाक्। अग्रजामथ तां कन्यां शूरोऽनुग्रहकाङ्क्षि-णे। प्रददौ कुन्तिभोजाय सस्ता सख्ये महात्मने। नियुक्ता सा पितुर्गेहे ब्राह्मणातिथिपूजने। उग्रं प-र्य्यचरत्तत्र ब्राह्मणं शंसितव्रतम्। निगूढनिश्चयं धर्म्मेयं तं दुर्व्वाससं विदुः। तमुग्रं शंसितात्मानं सर्व्वयत्नै-रतोषयत्। तस्यै स प्रददौ मन्त्रमापद्धर्म्मान्ववेक्षया। अ-भिचारादिभिर्युक्तमब्रवीच्चैव तां मुनिः। यं यं देवंत्वमेतेन मन्त्रेणावाहयिष्यसि। तस्य तस्य प्रसादेनतव पुत्रो भविष्यति। तथोक्ता सा तु विप्रेण कुन्तीकौतूहलान्विता। कन्या सती देवमर्कमाजुहाव यश-स्विनी। सा ददर्श तमायान्तं भास्करं लोकभावनम्। विस्मिता चानवाद्याङ्गी दृष्ट्वा तन्महदद्भुतम्। तां समा-साद्य देवस्तु विवस्वानिदमब्रवीत्। अयमस्म्यसितापाङ्गि। ब्रूहि किं करवाणि ते। कुन्त्युवाच। कश्चिन्मे ब्रा-ह्मणः प्रादाद्वरं विद्याञ्च शत्रुहन्!। तद्विजिज्ञास-याह्वानं कृतवत्यस्मि ते विभो!। एतस्मिन्नपराधे त्वांशिरसाहं प्रसादये। योषितो हि सदा रक्ष्याः स्व-पराधेऽपि नित्यशः। सूर्य्य उवाच। वेदाहं सर्वमे-वैतत् यद्दुर्व्वासा वरं ददौ। संत्यज्य भयमेवेहक्रियतां सङ्गमो मम। अमोघं दर्शनं मह्यमाहूत-श्चास्मि ते शुभे!। वृथाह्वानेऽपि ते भीरु! दोषः स्यान्नात्रसंशय। वैशम्पायन उवाच। एवमुक्ता बहुविधं सा-न्त्वपूर्ब्बं बिवस्वता। सा तु नैच्छद्वरारोहा कन्याह-मिति भारत!। बन्धुपक्षभयाद्भीता लज्जया च यश-स्विनी। तामर्कः पुनरेवेदमव्रवीद्भरतर्षभ!। मत्प्रसा-दान्न ते राज्ञि! भविता दोष इत्युत। एवमुक्त्वा सभगवान् कुन्तिराजसुतां तदा। प्रकाशकर्त्ता तपनः स-म्बभूव तया सह। तत्र वीरः समभवत् सर्वशस्त्र-भृतांवरः! आमुक्तकवचः श्रीमान् देवगर्भः श्रियान्वितः। सहजं कवचं बिभ्रत् कुण्डलोद्द्योतिताननः। अजायतसुतः कर्णः सर्व्वलोकेषु विश्रुतः। प्रादाच्च तस्य कन्यात्व[Page2101-a+ 38] पुनः स परमद्युतिः। दत्त्वा च तपतां श्रेष्ठो दिवमा-चक्रमे ततः। दृष्ट्वा कुमारं जातं सा वार्ष्णेयी दीन-मानसा। एकाग्रं चिन्तयामास किं कृत्वा सुकृतं भवेत्। गूहमानापचारं सा बन्धुपक्षभयात्तदा। उत्ससर्ज्ज-कुमारं तं जले कुन्ती महाबलम्”। युधिष्ठिरादुत्पत्तिस्तत्रैव

१२

२ ।

१२

३ अ॰ यथा
“एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम्। प्रत्युवाचवरारोहा भर्त्तुः प्रियहिते रता। पितृवेश्मन्यहंबाला नियुक्ताऽतिथिपूजने। उग्रं पर्य्यचरन्तत्र ब्राह्म-णं शंसितव्रतम्। निगूढनिश्चयं धर्म्मे यन्तं दुर्वा-ससं विदुः। तमहं शंसितात्मानं सर्व यत्नैरतोषयम्। स मेऽभिचारसंयुक्तमाचष्ट भगवान् वरम्। मन्त्रन्त्वि-मञ्च मे प्रादादब्रवीच्चैव मामिदम्। यं यं देवं त्वमे-तेन मन्त्रेणावाहयिष्यसि। अकामो वा सकामो वावशं ते समुपैव्यति। तस्य तस्य प्रसादात्ते राज्ञि! पुत्रोभविष्यति। इत्युक्ताहं तदा तेन पितृवेश्मनि भारत!। ब्राह्मणस्य वचस्तथ्यं तस्य कालोऽयमागतः। अनुज्ञातात्वया देवमाह्वयेयमहं नृप!। तेन मन्त्रेण राजर्षे! यथास्यान्नौ प्रजा हिता। आवाहयामि कं देवं ब्रूहिसत्यवतांवर!। त्वत्तोऽनुज्ञाप्रतीक्षां मां बिद्व्यस्मिन्कर्म्मणि स्थिताम्। पाण्डुरुवाच। अद्यैव त्वं वरा-रोहे! प्रयतस्व यथाविधि। धर्म्म मावाहय शुभे! स हिदेवेषु पुण्यभाक्। अधर्म्मेण न नो धर्म्मः संयुज्येतकथञ्चन। लोकश्चायं वरारोहे! धर्म्मोऽयमिति मन्यते। धार्म्मिकश्च कुरूणां स भविष्यति न संशयः। धर्म्मेणचापि दत्तस्य नाधर्म्मे रंस्यते मनः। तस्माद्धर्म्मंपुरस्कृत्य नियता त्वं शुचिस्मिते!। उपचाराभिचाराभ्यांधर्म्ममावाहयस्व वै। वैशम्पायन उवाच। सा तथोक्तातथेत्युक्त्वा तेन भर्त्रा वराङ्गना। अभिवाद्याभ्यनुज्ञाताप्रदक्षिणमवर्त्ततं”।
“संवत्सरधृते गर्व्भे गान्धार्य्याजनमेजय। आह्वयामास वै कुन्ती गव्र्भार्थे धर्म्म-मच्युतम्। सा बलिं त्वरिता देवी धर्म्मायोपज-हाव ह। जजाप विधिवज्जप्यं दत्तं दुर्व्वाससापुरा। आजगाम ततो देवो धर्म्मो मन्त्रबलात्ततः। विमाने सूर्य्यसङ्काशे कुन्ती यत्र जपस्थिता। विहस्यतां ततो ब्रूयाः कुन्ति! किन्ते ददाम्यहम्। सा तं वि-हस्यमानापि पुत्रं देह्यब्रवीदिदम्। संयुक्ता सा हिधर्म्मेण योगमूर्त्ति धरेण ह। लेभे पुत्रं वरारोहा सर्व्व-[Page2101-b+ 38] प्राणभृतां हितम्। ऐन्द्रे (ज्येष्ठाभे) चन्द्रसमायुक्ते सु-हूर्त्तेऽभिजितेऽष्टमे। दिवामध्यगते सूर्य्ये तिथौ पूर्णे-ऽतिपूजिते। समृद्धयशसं कुन्ती सुषाव प्रवरं सुतम्। जातमात्रे सुते तस्मिन् वागुवाचाशरीरिणी। एष धर्म्म-भृतां श्रेष्ठो भविष्यति नरोत्तमः। विक्रान्तः सत्यवाक्चैव राजा पृथ्व्यां भविष्यति। युधिष्ठिर इति ख्यातःपाण्डोः प्रथमजः सुतः। भविता प्रथितो राजा त्रिषुलोकेषु विश्रुतः। यशसा तेजसा चैव वृत्तेन च समन्वितः। धार्म्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत्। प्राहुः क्षत्रं बलज्येष्ठं बलश्रेष्ठं सुतं वृणु। ततस्तथोक्ताभर्त्रा तु वायुमेवाजुहाव सा। ततस्तामागतो वायुर्मृ-गारूढो महाबलः। किन्ते कुन्ति! ददाम्यद्य ब्रूहि यत्तेहृदि स्थितम्। सा सलज्जा विहस्याह पुत्रं देहि सु-रोत्तम!। बलबन्तं महाकायं सर्व्वदर्षप्रभञ्जनम्। त-स्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः। तमप्यतिबलंजातं वागुवाचाशरीरिणी। सर्ब्बेषां बलिनां श्रेष्ठोजातोऽयमिति भारत। इदमत्यद्भुतं चासीज्जातमात्रेवृकोदरे। यदङ्कात् पतितो मातुः शिलां गात्रैरचूर्ण-यत्। कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल। नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम्। ततः स व-ज्रसङ्घातः कुमारो न्यपतद्गिरौ। पतता तेन शतधाशिला गात्रैर्विचूर्णिता। तां शिलां चूर्णितां दृष्ट्वापाण्डुर्व्विस्मयमागतः। यस्मिन्नहनि भीमस्तु जज्ञेभरतसत्तम!। दुर्य्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप!। जाते वृकोदरे पाण्डुरिदं भूयोंऽन्वचिन्तयत्। कथं नुमे वरः पुत्रो लोकश्रेष्ठो भवेदिति। दैवे पुरुषकारे चलोकोऽयं सम्प्रतिष्ठितः। तत्र दैवन्तु विधिना कालयु-क्तेन लभ्यते। इन्द्रो हि राजा देवानां प्रधान इतिनः श्रुतम्। अप्रमेयबलोत्साहो वीर्य्यवानमितद्युतिः। सन्तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम्। यं दास्यतिस मे पुत्रं स वरीयान् भविष्यति। अमानुषान्मानु-षांश्च संग्रामे स हनिष्यति। कर्म्मणा मनसा वाचातस्मात्तप्स्ये महत्तपः। ततः पाण्डुर्महाराजोमन्त्र-यित्वा महर्षिभिः। दिदेश कुन्त्याः कौरव्यो व्रतंसंवत्सरं शुभम्। आत्मना च महाबाहुरेकपाद-स्थितोऽभवत्। उग्रं स तप आस्थाय परमेण समा-धिना। आरिराधयिषुर्द्देवं त्रिदशानां तमीश्वरम्। भार्य्यया सह धर्म्मात्मा पर्य्यतप्यत भारत!। तन्तु कालेन[Page2102-a+ 38] महता वासवः प्रत्यपद्यत। शक्र उवाच। पुत्रं तवप्रदास्यामि त्रिषु लोकेषु विश्रुतम्। ब्राह्मणानां गवा-ञ्चैव सुहृदाञ्चार्थसाधकम्। दुर्हृदां शोकजननं सर्व्व-बान्धवनन्दनम्। सुतं तेऽग्र्यं प्रदास्यामि सर्व्वामित्र-विनाशनम्। इत्युक्तः कौरवो राजा वासवेन महा-त्मना। उवाच कुन्तीं धर्म्मात्मा देवराजवचः स्मरन्। उदर्कस्तव कल्याणि! तुष्टो देवगणेश्वरः। दातुमिच्छति तेपुत्रं यथा सङ्कल्पितं त्वया। अतिमानुषकर्म्माणं यशस्विन-मरिन्दमम्। नीतिमन्तं महात्मानमादित्यसमतेजसम्। दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम्। पुत्रं जनयसुश्रोणि! धाम क्षत्रियतेजसाम्। लब्धः प्रसादो देबे-न्द्रात् तमाह्वय शुचिस्मिते!। वैशम्पायन उघाच। एव-मुक्ता ततः शक्रमाजुहाव यशस्मिनी। अथाजगामदेवेन्द्रो जनयामास चार्ज्जुनम्”। कुन्त्या अपत्यं ढक्। कौन्तेय तदपत्ये
“कौन्तेय प्रतिजानीहि” गीता।

"https://sa.wiktionary.org/w/index.php?title=कुन्तीतनय&oldid=280782" इत्यस्माद् प्रतिप्राप्तम्