सामग्री पर जाएँ

कुन्दः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुन्दः, पुं क्ली, (कु कुत्सितं दुर्गन्धादिजनितक्लेशं द्यति नाशयति । कु + दो छेदने + कः । पृषोद- रात् नुंम् । यद्वा कौतीति । “अब्दादयश्च” । उणां ४ । ९८ । इति निपातनात् सिद्धम् ।) पुष्पवृक्षविशेषः । कु~द्फुलेर गाछ इति भाषा । तत्पर्य्यायः । माघ्यम् २ । इत्यमरः । २ । ४ । ७३ ॥ शुक्लपुष्पः ३ । इति रत्नमाला ॥ मकरन्दः ४ महामोदः ५ मनोहरः ६ मुक्तापुष्पः ७ सदापुष्पः ८ तारपुष्पः ९ अट्टहासकः १० दमनः ११ वन- हासः १२ मनोज्ञः १३ वोरटम् १४ वरटम् १५ । इति शब्दरत्नावली ॥ (यथा, नवग्रहस्तोत्रे शुक्रस्तुतिः । “ओ~ हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् । सर्व्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्” ॥) अपि च । भावप्रकाशे ॥ “कुन्दन्तु कथितं माध्यं सदापुष्पञ्च तत् स्मृतम् । कुन्दंशीतं लघु श्लेष्मशिरोरुग्विषपित्तहृत्” ॥ अस्य गुणाः । अतिमधुरत्वम् । शीतत्वम् । कषा- यत्वम् । कैश्यभावनत्वम् । कफपित्तहरत्वम् । सारकत्वम् । दीपनत्वम् । पाचनत्वञ्च । इति राज- निर्घण्टः ॥ तत्पुष्पगुणौ । श्लेष्मकारित्वम् । ग्राहि- त्वञ्च । इति राजवल्लभः ॥

कुन्दः, पुं, कुन्दुरुनामगन्धद्रव्यम् । (अस्य पर्य्याया यथा ॥ “कुन्दुरुस्तु मुकुन्दः स्यात् सुगन्धः कुन्द इत्यपि” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) भ्रमियन्त्रम् । कु~द् इति भाषा । कुवेरस्य निधि- विशेषः । इति मेदिनी ॥ करवीरवृक्षः । इति राजनिर्घण्टः ॥ (कुन्दपुष्पवर्ण इव श्वेततया सत्ययुगे हंसावतारत्वाच्च । विष्णुः । यथा महा- भारते १३ । १४९ । १०० । “कुमुदः कुन्दरः कुन्दः पर्ज्यन्यः पवनोऽनिलः” ॥ यद्वा कुं पृथ्वीं कश्यपाय दत्तवान् । दा + कः । द्वितीयाया अलुक् । परशुरामावतारे क्षत्रिय- हत्यापापशुद्ध्यर्थं मारीचाय अश्वमेधयज्ञे महा- दानस्य दक्षिणास्वरूपवसुन्धरादानादस्य तथा- त्वम् । तत्कथा यथा हरिवंशे । “सर्व्वपापविशुद्ध्यर्थं वाजिमेधेन चेष्टवान् । तस्मिन् यज्ञे महादाने दक्षिणां भृगुनन्दनः । मारीचाय ददौ प्रीतः कश्यपाय वसुन्धराम्” ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुन्दः [kundḥ] न्दम् [ndam], न्दम् [Uṇ.4.98] A kind of jasmine (white and delicate); कुन्दावदाताः कलहंसमालाः Bk.2.18; प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः Me.115; Ś.5.19. -न्दम् The flower of this plant; अलके बालकुन्दानुविद्धम् Me.67,49.

न्दः An epithet of Viṣṇu.

A fragrant oleander.

One of the nine treasures of Kubera.

The number 'nine'.

A lotus.

A turner's lathe. -Comp. -करः a turner. -चतुर्थी the fourth day in the light half of the month माघ. -सम -दन्त a. One whose teeth are like the jasmine.

"https://sa.wiktionary.org/w/index.php?title=कुन्दः&oldid=280815" इत्यस्माद् प्रतिप्राप्तम्