कुन्दुरुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुन्दुरुः, पुं, स्त्री, (कुं भूमिं उनत्ति । उन्द् + जत्र्वा- दित्वात् निपातनात् साधुः ।) स्वनामख्यातसुग- न्धिद्रव्यम् । यस्य निर्यासे कुन्दुरुखोटि इति ख्यातिः । तत्पर्य्यायः । पालङ्क्या २ मुकुन्दः ३ कुन्दः ४ । इत्यमरः । २ । ४ । १२१ ॥ पालङ्की ५ मुकुन्दुः ६ कुन्दुः ७ कुन्दुरः ८ । इति तट्टीकायां भरतः ॥ कुन्दुरुकः ९ सौराष्ट्रः १० शिखरी ११ कुन्दकः १२ तीक्ष्णः १३ गोपुरकः १४ बहुगन्धः १५ पालिन्दः १६ भीषणः १७ तीक्ष्णगन्धः १८ बली १९ । इति जटाधरः ॥ अपि च । “कुन्दुरुस्तु मुकुन्दः स्यात् सुगन्धः कुन्द इत्याप । कुन्दुरुर्म्मधुरस्तिक्तस्तीक्ष्णस्त्वच्यः कटुर्हरेत् । ज्वरस्वेदग्रहालक्ष्मीमुखरोगकफानिलान्” ॥ इति भावप्रकाशः ॥ अस्य गुणाः । मधुरत्वम् । तिक्तत्वम् । कफपित्तार्त्तिदाहनाशित्वञ्च । अस्य पानलेपनयोर्गुणः । शिशिरत्वम् । प्रदरामयशान्ति कारित्वञ्च । इति राजनिर्घण्टः ॥ अलक्ष्मीरक्षो- ज्वरनाशित्वम् । इति राजवल्लभः ॥ (अस्य व्यवहारो यथा वैद्यकचक्रपाणि-संग्रहे ऽष्टादशशतिकप्रसारणी तैले ॥ “कर्पूरं कुन्दुरुनिशालवङ्गध्यामचन्दनम्” ॥ * ॥)
