सामग्री पर जाएँ

कुपथः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कुपथः, पुं, कुत्सितः पन्थाः । (पाणिनिमते कापथ इति नित्यं स्यात् । वोपदेवमते तु “पथि पुरुषे वा” । इति सूत्रेण विभाषया कोः कादेशः ।) का- पथः । इति शब्दरत्नावली । (यथा, श्रीमद्भागवते ५ । ६ । १० । “स्वधर्म्मपथमकुतोभयमपहाय कुपथपाषण्डमसमञ्जसं निजमनीषया मन्दः प्रवर्त्त- यिष्यति” ॥ कुपथः सेव्यत्वेनास्त्यस्य । अर्श आदित्वात् अच् । कुपथगामिनि, त्रि । यथा महाभारते । १ । ६७ । २९ । “कुपथस्तु महावीर्य्यः श्रीमान् राजन् ! महासुरः । सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः” ॥)

"https://sa.wiktionary.org/w/index.php?title=कुपथः&oldid=127446" इत्यस्माद् प्रतिप्राप्तम्